________________
लादिन्द्रं न्यवत् ॥ ३८६ ॥ प्रथयन्ती कथास्तास्ता चित्राङ्गद किरीटिनौ । एकं विमानमारुह्य, त्रियन्मार्गेण जग्मतुः || ३८७ ॥ संमेतादिषु शैलेषु, पावनेष्वर्हतां पदैः । सर्वविद्याधरोपेतः पार्थस्वीर्थान्यवन्दत ।। २८८ ॥ चारणश्रमणश्चैप, नमस्यन् व्योम्नि संमुखान् । आगालबङ्गलवली - सुगन्धं गन्धमादनम् ॥ ३८९ ॥ पुरोगखेचराख्यातां वीक्ष्य व्योम्नि सुतश्रियम् । निजामुवाच रोमाञ्च-द्वारेणैव मुदं पृथा ॥ ३९० ॥ पश्यमपि सुधाबन्धुबन्धुलक्ष्मीं युधिष्ठिरः । सानुजः कलयामास तत्कालमनिमेषताम् || ३९१ ॥ तदानीं विकसनेत्र-नीरंजा द्रुपदात्मजा । इयेष मनसोत्त्य, पत्युरुत्सङ्गसंगमम् ।। ३९२ ।। उन्मुखेषु मुद्रा तेषु वेगादागत्य फाल्गुनः । खेचरैः सहितो मातु-रपतत् पादपङ्कजे || ३९३ ।। मुहुर्मुहुः स्पृशन्त्याऽङ्गे, सुषाशीतेन पाणिना । तयाऽपि रुपयांचक्रे, प्रमोदाश्रुभिरात्मजः ।। ३९४ ॥ उभाभ्यामपि पाणिभ्यां तमुत्थाtय पृथा बलात् । आजिघ्रन्मुदिता मूर्ध्नि, प्रश्रवक्लिन्नवस्कला || ३९५ || अग्रजावनमत् पार्थ-स्तं चोपेत्यानुजौ यमौ । पार्थेनावेदिता नेमुः खेचरास्तपसः सुतम् ॥ ३९६ ॥ त्रपासीमान्तमुल्लङ्घय, पुत्रमानैरितस्ततः । प्रेम प्रकाशयामास, कृष्णा भात्रैः स्वभर्तरि ॥। ३९७ || उपस्थातव्यमाहूतै- युष्माभिः समये पुनः । इत्याभाग्य तपः सूनु-सिसर्ज नभश्वरान् ।। ३९८ ।।
अथ पप्रच्छ विनयी, बान्धवान् कपिकेतनः । अत्यकामदयं कालः, कथं वो विरहे मम ? || ३९९ ।। तत्तत्तीर्थनमस्याभिस्त्वत्कथाश्रवणेन च । गमितः समयोऽस्माभि-रित्याख्यद्धर्मनन्दनः || ४०० || स्मरव्यापारनिपुणा, वियोगगुणितं प्रियात् । आददे द्रौपदी स्वैरं करणग्रामजं सुखम् ॥ ४०१ ।। कालेन भूयसा जातु तस्याः क्रीडाजुषः प्रियैः । मत्रपत्र
१ नीरजं कमलम् । इन्द्रियसमूहज निनम् ।