________________
अर्जुनस्से
श्रीपाण्डवचरित्रम। सर्ग:
| गमनम् ।
॥१५६॥
प्रयाण
311 स्मरार्ताः पुरकामिन्यः, कामयन्ते स्म फाल्गुनम् । वशी स्वदारसंतुष्टो, न तु ताः स कदाचन || ३७२ ॥ उपेत्योपेत्य तं प्रेम्णा, वृणते स्म पर्तिवराः। स्मरन् बन्धुवनक्लेश, प्रेतीयेप न ताः स तु ॥ ३७३ ।। चित्राङ्गद-विचित्राङ्कचित्रसेनादयः शतम् । आययुः खेचरास्तत्र, फाल्गुनालोकनार्थिनः।। ३७४ ॥ इन्दोः संवर्णानाकर्ण्य, गुणान् प्रेक्ष्य च ते स्वयम् । धनुर्वेदादिशिक्षासु, गुरुं चक्रुः किरीटिनम् ।। ३७५ ॥ लज्जयामास न द्रोणं, शिक्षादानक्रमेण सः । गुरुवैनयिकोत्कर्षे, न च ते सव्यसाचिनम् ।। ३७६ ॥ अचिरेणैव पारीणाः, कलानां तेऽथ जज्ञिरे । विद्याब्धिकर्णधारो हि, योगः सद्गुरुशिष्ययोः ।।३७७॥ ददुः सर्वस्त्रमप्येते, बलाजिष्णुयवारयत् । इत्यभूत कलहस्तेपा, गुरुणा दक्षिणाकृते ॥३७८।। निषिद्धाः पाण्डुपुत्रेण, समयापेक्षिणस्ततः । कृतज्ञाः कल्पयामासुः, प्राणांस्ते गुरुदक्षिणाम् ।। ३७९ ॥ ते च विद्याधराधीशाः, सर्वेच्छा यावदन्वहम् । तस्थुः प्रतस्थिरे चापि, सहैव कपिकेतुना ॥ ३८० ॥ चित्राङ्गदस्तु गन्धर्वो, गीतेन वरिवस्यति । ततोऽस्मिनधिको प्रीति, प्रथयामास पाण्डुसुः ॥ ३८१ ॥ इन्द्रवात्सल्यतः पार्थः, शिष्याणां चोपचारतः । भूयांसं गमयामास, कालमेकाहलीलया ॥ ३८२ ॥
कदाचिद्वान्धवोत्कण्ठा-विवशीकृतमानमः । इन्द्रमामत्रयामास, गमनाय धनंजयः ।। ३८३ ।। रथं दिव्यं विमान च, चन्द्रचूडं च मारथिम् । इन्द्रः समय बाष्पाम्बु-प्लुताक्षो विससर्ज तम् ।। ३८४ ॥ मनोवेगविमानस्थै-श्चित्राङ्गदपुर:-! सरैः। विद्याधरैरनुगतः, प्रतस्थेऽथ कपिध्वजः ॥ ३८५ ।। स साश्रुनयनाम्भोजः, पर्यश्रुमनुगामिनम् । आविष्कृतबहुस्नेहं,
१ ऐच्छत् २ सहशान ।
-
।
दवशीकमान्य बापा
॥ स माथुन
॥१५६॥