________________
काश्चित्प्रतिक्षणं वक्षः-कुट्टिमं कुट्टयन्ति च ॥ ३५६ ॥ क्षिपन्ति दरमणि, हारमुक्ताश्च काश्चन | मन्यन्ते च दुकूलानि, प्रतिकूलानि काथन ॥ ३५७ ॥ त्वत्क्षुरप्रा द्विषां क्षिप्रं, लपाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तामां, लुलुपुः पत्रवल्लरीम् ? ॥ ३५८ ॥ वयं वेगाद्विमानस्य, वैमनस्यविनाशकृत् । अईञ्चैत्याश्चित वत्स!, सिद्धकूटमुपागताः ।। ३५९ ।।
अथोत्तीर्य विमानेभ्यः, सर्व श्रद्धालुवेतमः । तत्र शाश्वततीर्थेशं, वर्धमानं वन्दिरे ।। ३६० ॥ दुष्पापं दर्शनं मच्चा, विशेषाजिनमर्जुनः । खावानन्तरमानर्च, तुष्टाव च मुहुर्मुहुः ॥ ३६१ ॥ गङ्गाम्बुविमला तस्य, जिनोपासनवासना । पापपकमपायातु-मपुष्णात् प्रविष्णुताम् ।। २६२ ।। पुनामानमारुष, कीयमानोऽथ बन्दिभिः । उस्क्षिप्तकेतनां पुप्प-प्रकराश्चितचत्वराम् ॥ ३६३ ॥ उत्तोरणां रणत्तूाँ, सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य, राजधानीमुपाययौ ।। ३६४ ॥ युग्मम् ।। सानन्दैः खेचरीवृन्दै-लाजाक्षेपपुरस्सरम् । पीयमानाङ्गलावण्यः, स सौधद्वारमागमत् ।। ३६५ ॥ प्रस्रुतोलूलुकल्लोलं, लोलाक्षीभिः किरीटिनः । प्रवेशमङ्गलाचारं, चकारेन्द्रप्रिया स्वयम् ॥३६६|| स्वयं सिंहासनासीन-स्तं कृत्वोत्सङ्गसङ्गिनम् ।। वासवः कारयामास, पुरः संगीतमङ्गलम् ।। ३६७ ।। स चिरान खेचरास्त्राणि, किरीटं कवचं तथा । तदा प्रदाय पार्थाय, | स्वं कृतार्थममन्यत ॥ ३६८ ॥ अग्रजः सवपुत्राणां, मम सूनुस्सौ जनैः । ज्ञातव्य इति सर्वत्र, घोपयामान बासवः ॥३६९॥ कंचित् कालमिव त्वं, तिष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयांचक्र, तदेति बिदशेश्वरः ॥ ३७० ॥ ओमित्युक्त्वा कनीयोमि-न्धिवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णु-जिहार यदृच्छया ।। ३७१ ॥
१ ऊर्वीकृतध्वजाम् । २ सूर्यसदृशकान्तिः ।