________________
नास्ति प्रानिबद्धे हि, यो रुणद्धि शुमाधुमे ॥३५३॥ अम्बालिकाऽपि तनयं, तस्यानुजमजीजनत् । आजन्म पाण्डुरोगित्वायः पाण्डुरिति पप्रथे ॥३५४॥ गुणाम्बुनिधिरम्याया-स्तनूजः समजायत। यं चकुर्गुरवः सर्व-विदुरं विदुराभिधम् ॥३५५॥
अथ तेषु कुरोवंश, जन्मनाऽलंकरिष्णुषु । शुभैरुज्जृम्भितं भावः, प्रलीनमशुभैः पुनः॥३५६॥ सूचकश्चरटश्चौरः, कृपणः पारद्वारिकः । एते अन्दास्तदा प्रापु-रामधन बध्यताम् ।। ३५७ ।। लेभे सर्वत्र साम्राज्य-मेकच्छत्रं नयस्तदा । निरन्वयविनाशेन, व्यनश्यहुर्नयः पुनः ।। ३५८ ॥ तदा नाधिन च व्याधिधिते म्म जनं कचित् । न दुर्बलो बलिष्टेन, कचनाप्यभ्यभूयत ॥ ३५९ ॥ नावृष्टि तिवृष्टिश्व, तदा प्रादुरभृधि । ईतिः प्रीतिविधाताय, नान्याऽप्यासीन् कुटुम्बिनाम् ।।३६०।। पुष्पन्ति स्म फलन्ति स्म, कालेऽवश्यं महीरुहः । पुष्यन्ति स्म रसोत्कर्ष, पुष्पेषु च फलेषु च ॥ ३६१ ॥ अनुभावान् कुमा| राणा-मित्यभूदुदयो भुवः । भवेद्वाङ्मनसातीतः, प्रभावो हि महात्मनाम् ॥ ३६२ ।। किं तु स्त्रीव्यसनेनाति-मनोऽभीष्टेन
सर्वदा । चिराय मिलितेनेव, भूयोऽप्यालिङ्गितो नृपः ॥ ३६३ ।। ततः क्षीणतनुः सोऽभूत , प्रियास्वासक्तमानसः । “रामासु भृशमासक्तिः, कारणं राजयक्ष्मणः" ।। ३६४ ।। राजयक्ष्मपरीवारः, कासःश्वासोऽपनिद्रता। रुजोऽन्या अपि राजान-मर्कजअनुवासरम् ।। ३६५ ॥ चित्रैर्विचित्रवीर्यस्तै-रातहैराकुलीकृतः । संचक्राम परं लोक, 'कामस्याहो ! दुरन्तता' ॥३६६॥
तस्मिन्नस्तमिते मनु-भानौ सत्यवती तदा। शोकान्धकारबैधुर्य-मघत्त यौरिवाधिकम् ॥ ३६७ ॥ विललाप च हा ! वत्स, हा! परिच्छदवत्सल !। हा! कौरवकुलोस, हाऽगमः कामिमां दशाम् ॥ ३६८ ॥ इत्थं सा विलपन्त्येव,
१ अर्थेन । २ समूलनाशेनेत्यर्थः । ३ 'नापि ' इति प्र. य० । ४ अपीडयन् ।