________________
३२५ ॥ मन्येऽरीणां विधेयानि, भागधेयानि सांप्रतम् । यत्त्वं युद्धधुरीणोऽपि रणाद्वालयसे रथम् || ३२६ ॥ पार्थोऽवादीदहो नाहं, कालं कंचिदपि क्षमे । तवायमञ्जलिर्वद्धो, रथं वालय वालय ।। ३२७ ॥ कर्णजाहं न गाहन्ते यद्वा ते मूर्मिरो पर । तरेगना व्यावर्त्यतां रणात् ।। ३२८ ॥ इत्युक्तः सोऽथ कृष्णास्यः स्यन्दनं तं न्यवर्तयत् । ते चानुपदिकास्तस्य, जैत्रंमन्या दधाविरे ।। ३२९ ।। जयश्रीमन्या, मुखाग्रन्यस्तपाणयः । ते वेडां युगपच्चक्रुः कृतान्ताह्वानसंनिभाम् || ३३० || स्मृत्वा द्रोणार्पितं मन्त्र-मनेकविशिस्त्रप्रमुः । वाणः प्राणहरस्तेषां मुमुचे सव्यसाचिना ॥ ३३१ ॥ एकस्मादप्यथैतस्मात्, स्फुलिङ्गा इव पावकात् । यावद्विद्वेषि निर्जग्मुः, प्रेङ्खाः शिलीमुखाः ॥ ३३२ ॥ युगपच्चलितास्ते च, तालूनि सह पाणिभिः । अरीणां लीलया भित्वा निर्ययुर्जीवितैः सह ॥ ३३३॥ शशनिहताः पेतु-त्रि ते पर्वता इव । पपात पुष्पवर्षं च पार्थमूर्ध्नि नमोऽङ्गणात् ॥ ३३४ ॥ तदत्यद्भुतमालोक्य श्रुत्वा च दिवि दुन्दुभिम् । बभार सारथिः फुल्लत्पुण्डरीकमित्राननम् || ३३५ ॥ साधु साधु महाबाहो !, धनंजय ! चिरं जय । एते प्रत्यर्थिनः प्रौडा, लीलयैव त्वया जिताः ||३३६|| इत्यानन्दपरः पार्थ-मभिनन्दन् पुनः पुनः । आलिलिङ्ग स सर्वाङ्ग-मुन्मीलत्पुलकाङ्कुरः ||३३७|| ( युग्मम् )
अथ व्योम्नि विमानेन, हर्षादायान्तमन्तिके । वासवं दर्शयामास, सारथिः पाण्डुसूनवे ।। ३३८ ।। दिया दृष्टिमिठो देहि, सखेचरपरिच्छदः । संग्रामकौतुकादेति, पुरवस्ते पुरंदरः || ३३९ ।। रथस्थ एव पार्थस्तं प्रीतः प्रत्युद्ययौ दशा । १ कर्णमूलम् । २ गर्जनाम् । ३ यावन्तो विद्वेषिणस्तान्वतो बाणाः । * अशनिः -वशम् १४ शरासनिहिताः ' इति क्वचि - स्पाठः । इन्द्रं नृपम् ।