________________
२९७ ॥ अयं पन्थाः पृथाम्नो, प्रयाति रथनू पुरम् । अस्ति वास्तोष्पतियंत्र, त्वदर्शनसमुत्सुकः ॥ २९८ ।। अयं वामः पुनः पन्था-स्तद्रिपूनुपतिष्ठते । सन्ति येषूद्धता योद्ध-मुद्धतास्नलतालवः ॥ २९९ ॥ अथाऽऽह पार्थः सोत्कण्ठं, प्रतिपन्थिषु मे मनः । मुखमेषामनालोक्य, नैवेन्द्रं द्रष्टुमुन्महे ।। ३०० तच्चन्द्रचूड ! यत्रते, तत्रैनं स्यन्दन नय । यथा जानामि ते हन्त !, कियन्तः सन्ति शत्रवः ॥३०॥ ऊचे चन्द्रावतंसोऽथ, तत्र कि गमनेन ते । प्रतिपक्षाः परोलक्षा-स्त्वं तु बाहुपरिच्छदः ॥ २०२॥ यदा प्रत्यर्थिसैन्ये स्याः, समुद्रे सक्तुमुष्टिवत् । अरण्यरुदितमाया-स्तदा स्यु! मनोरथाः ॥ ३०३ ।। इन्द्रादिष्टामधिष्ठाय, ध्वजिनीं तत् कपिधज ! । शत्रूनुच्छेत्तुमामच्छे-मश्रस्तावदयं मम ॥ ३०४ || अर्जुनः पुनरप्यूचे, किं | चमूभिरमून प्रति । भिनत्ति कुम्भिनां कुम्भा--निभारिः किं परिग्रहः ? ।। ३०५ ॥
खेचरस्तदवष्टम्म-मुदितोऽथ रथं ततः। नुनोद यत्र शौण्डीय-केतवः कालकेतवः ।। ३०६ ॥ दं कवचितास्ते च, गृहीतविविधायुधाः । सव्यसाचिनमायान्तं, पश्यन्तो जगदुर्मियः ।। ३०७ ।। स्थोऽभ्येति यदैन्द्रोऽयं, चन्द्रशेखरसारथिः । आहूतः पुरुहतेन, पार्थस्तधुबमागतः ॥३०८॥ पञ्चत्वमस्मादस्माकं, मुहुमौहर्तिकरहो । आदिष्टमिति नो माति, हास्यमा
स्ये प्रसृत्वरम् ॥ ३०९ ॥ अस्त्रैः शस्त्रैश्च निःशेपै-रशेषेण भुजौजमा । सबैश्छन्नप्रयोगैश्च, शत्रुमेतं निशुम्भत ।। ३१० ।। इत्याआलोच्य प्रहर्तु ते, प्रावर्तन्त धनंजयम् । वाणैः फणैरिवोल्फाले-वैनतेयमिवायः॥ ३११ ॥ तदा तेषामनीकेषु, रसन्ति स्म समन्ततः । रणतूर्याणि कीनाश-प्रवेशपटहा इव ॥ ३१२ ।। तरणेः किरणश्रेणि, ते वन्दीचक्रिरे शरैः । तांस्तु च्छिचा विस
१ इन्द्रः। २ नाशयत । ३ सोः ।