________________
वमिदं, मा स्याक्षीमयि योद्धरि । इति जल्यन्ननल्पोजाः, संदधे अवर शरम् ।। २३५ ॥ वलिगत फाल्गुनोऽप्यस्य, पश्यन् बाणासने शनैः । रोपमारोपयांचक्रे, किरिशोणितशोणितम् ॥ २३६ ।। अखर्वमौर्वीटंकारः, साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः, प्रावर्तत रणो महान् ।।२३७॥ निपादि-सादि मेन, निःसीमेन समेयुषा । तदा गजाश्ववृन्देन, पुलिन्दः पर्यवार्यत ॥२३८ पाकर विनर वाचाल, श्चता सव्यसाचिना। तस्य क्षणादनीकस्य, दिदिशे कान्दिशीकता ॥२३९ । पार्थवाणाड़िताः सैन्या, व्यावर्तन्ते स्म ते यदा । तदाऽसौ दर्शयामास, युद्धकौशलमात्मनः ॥ २४०॥ तदानीं द्रष्टुकामानां, त्रिमानैव्योमचारिणाम् । व्योमाभोगतडागोऽभूत् , संकुलः कमलैरिव ।।२४१॥ वारंवारमजायन्त, तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य, निःस्त्रस्येव मनोरथाः ।।२४२।। अस्मादिखमाग्नेय-मर्जुनः स्फूर्जर्जितम् । दावानलमयो येन, सर्वतोऽजनि पर्वतः ॥२४३॥ अखमा किरातोऽपि, वारुणं तमिवारणम् । प्रावृपेव जलासार-र्येनाद्रिनिरवाप्यत ॥ २४४ ॥ शखैरखैश्च दुर्वार-मबधार्य तमर्जुनः। धनुर्विहाय बाहुन्या, योञ्जु क्रुद्धः प्रचक्रमे ।। २४५ ॥ विमुच्य चापमुचाला, पुलिन्दोऽपि कलानिधिः । नियुद्धमुतारम्भ-मारेमे कपिकेतुना ॥ २४६ ॥ मदोत्कटभुजास्फोट-वसंस्तवपीवरैः । अत्रुटन्नद्रिकूटानि, तयोश्च रणददुरैः ।। २४७ ।। दन्तपातानिव तदा, ददतौ तलहस्तकान् । कुञ्जराविव रेजाते, तौ किरात-किरीटिनो ।। २४८ ॥ पूर्वकायोन्नतैर्मल्ल-युद्धमत्युद्धतं तयोः । आसनोत्थायमालोकि, गणदिविषदां दिवि ।। २४९॥ अथावसरमासाद्य, तमुपादाय पादयोः । मूर्धान परितः पार्थो, भ्रमयामास लीलया ॥२५०॥ शिलायां यावदेकस्या-मास्फालयति फाल्गुनः ।
१ शरम । २ अर्जुनस्य । ३ बाडुयुद्धम । ५ संस्तव:-परिचयः । ५ रणमेधैः ।