________________
al॥२०५॥ स्मृताभिः संनिधातव्यं, भवतीभितं मम । आहतो वः स्मरिष्यामि, मन्थने परिपन्थिनाम् ।। २०६॥ इति का विज्ञाप्य सत्कृत्य, सर्वा विद्याधिदेवताः । उपकारोत्सुकाः काम, विससर्ज धनंजयः ।। २०७ ॥ (युग्मम् )
गतासु वाम पार्थोऽथि, शैललक्ष्मीदिदृश्क्षया । नन्दनोद्यानसधीचि, विहार वने वने ।। २०८ ॥ बाणभिन्नवपुः कश्चिद्यमसैरिभसंनिभः । निःभूकः शूकरस्तेन, दृष्टः संमुखमाफ्तन ॥ २०९ धाऽसौ ध्वमभ्येति, नृशंसो मजिघांसया । एवं विमृश्य सोधिज्य, धनुष्मान् धनुरादधे ॥ २१ ॥ पार्थेन पोत्रिणः प्राण-मार्गणोऽक्षेपि मार्गणः । दचा प्राणांस्तिश्चापि, तेन सोऽथ कृतार्थितः ।। २११ ॥ आगतः शूकराम्यणे, बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीद , किरातं कंचिदर्जुनः। ॥ २१२ । सगुणं धारयन् धन्य, यमभ्रूभङ्गभङ्गुरम् । शसंश्च पंचपान् पाणी, सोऽप्युपकोडमाययौ ।। २१३ ॥ पार्थोऽथ पश्यतस्तस्य, स्वर्णपुखमनोरमम् । आददानो निजं बाणं, बभाष तेन सौष्ठवान् ॥ २१४ ।। सौम्य ! वीक्षे तवाचार-माकारव्यभिचारिणम् । कान्यथा पुण्यमूर्तिस्त्वं ?, क च स्तन्यममृदृशाम् ? ॥२१५॥ वरं तृणमिव प्राणां-स्त्यजन्त्युज्वलबुद्धयः ।। न पुनर्जातु कर्मेट-गाद्रियन्ते मलीमसम् ।। २१६ ॥ सदाचारसमीचीना, भिक्षा माधुकरी वरम् । अतिचार्योऽप्यनाचारदताहूता न तु श्रियः ॥ २१७ ॥ तन्मामकीनमारण्य-पशुशोणितपायिनम् ! विषदिग्धशिखं नैनं, विशिखं हर्तुमर्हसि ॥२१॥ मयाऽसौ कुरुचन्द्रस्य. तब द्रोहसमीहया । वराहराहुरागच्छन् , बुधेनेव निवारितः ॥ २१९ ॥ ततः स्वच्छन्दमाच्छिन्दन , बाणरत्नमिदं मम । हन्त प्रत्युपकारार्थ-मित्थं प्रक्रमसे किमु ! ॥ २२०॥ रिपुव्यापादनपण-क्रीतं मित्रं मविष्यसि ! इत्याशा
१ शत्रणाम् । २. यमराजमहिषतुल्यः । : शूकरस्य । ४ 'मार्गेणोत्मेपि०' प्रतित्रयपाठो न सम्यगाभाति । ५ अतिसुन्दराः ।