________________
एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः । अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः ।। १७६ ।। परं ममानुरोधेन, हायनानि किवन्त्यपि । बहुधाऽपि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ १७७ ॥ वनवासावधी पूर्णे, तीर्णे सत्यत्रते मया । को युष्मानभ्यमित्रीणान्, स्खलिप्यत्यर्णवानिय ? ॥ १७८ ॥ तदा भीमाणे भीमा - दुःशासनसमन्वितः । लब्धा दुर्यो धनः कृष्णा-केशाकर्षणनिष्क्रियम् ॥ १७९ ।। तदिदानीमितो गत्वा, सेव्यन्तां स्वःसनाभयः । उपलबलीगन्धा, गन्धमादनभूमयः ॥ १८० ॥ निजश्रीगवितोऽवि में दर्शन तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥ १८१ ।। प्रत्यपद्यन्त भीमाया - स्वामाज्ञामग्रजन्मनः । अप्युल्लुण्ठधियां पुंसां, गुर्वादेशो नवाकुशः ।। १८२ ॥
मातृ-भ्रातृ-प्रियोपेतः, प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन, यूथाधिप इव द्विपः || १८३ ॥ वरिवस्यन् स तीर्थानि नमस्यंवारणान् मुनीन् । नाना चित्राणि पश्यंश्थ, ययौ पूर्वोत्तरां दिशम् ॥ १८४ ॥ क्रमाद्भुवमतिक्रम्य, तटिनीशैलसंकटाम् । भूधरं स ययौ सार्धं बन्धुभिर्गन्धमादनम् ।। १८५ ।। नक्तमिन्दुपलोद्वान्तै- वारिभिर्यत्र पूरिताः । प्रावृपेण्यां तरङ्गिण्यः, शश्वदनुवते श्रियम् ।। १८६ ।। प्रियैरुपासितोपान्ता, यस्मिन्नादेशवर्तिभिः । बिलासान् दधते तांस्ता-नीप्सितानप्सरोगणाः ॥ १८७ ॥ तस्मिन् स्वादुफललाध्ये, भूरिनिर्झरशालिनि । बबन्धुर्वसतिप्रीतिं पाण्डवेया निराधयः || १८८|| सर्वर्तुकमनीयानां, बनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् ।। १८९ ।। कुन्ती क्रियासु धर्म्यासु, तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य, न सस्मार मनागपि ।। १९० ॥
१ स्वर्गतुल्याः । २ सेवमानः । ३' भूधव: ' प्रतिद्वय० ।