________________
श्री पाण्डव चरित्रम्
सर्गः ८ ॥
॥१४९॥
2.
किमु ? | पुत्रिणीनां त्रपकारि, कथं क्लीवप्रभूरभूः १ ।। १६१ ।। अहो ! सुबाहवः पाण्डोः, सूनवोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृभ्यते ॥ १६२ ॥ आर्यपुत्र ! तपः सूनुः, सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं, क्षमा ते कथमन्यथा १ ।। १६३ ।। निकारं कुरुत्रंशोऽपि, संसदेत यदीदृशम् । तर्हि सा नाम निर्नाम, निर्मम मनस्विता ॥ १६४ ॥ यदि नाम वनक्लेशो, लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते येतो, बन्धुदत्तापदप्यसौ ॥ १६५ ॥ सूक्ष्मक्षौमोचिता मी, बन्धस्तव भूपत्र !। वल्कलानि बसानांस्तान् किमु पश्यन्न लजसे ? || १६६ ॥ भ्रातरः सिन्धुरारोह- फैलिदुर्ललिता हिये | चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ? || १६७ ॥ वनेऽस्मिन् क्लिश्यते स्नेह-मोहिता वो हिताय या देवी साऽपि न किं कुन्ती, तवोद्बोधयति क्रुधम् ? ॥। १६८ ।। निश्चिन्तोऽसि किमेवं त्व-मसात्रभ्येति ते रिपुः । उत्तिष्ठस्व ततः स्वामिविधेहि दृशमायुधे ||१६|| प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे स्वयम् । इहायातमरिं हन्तुं, भीम पार्थी तदादिश ॥ १७० ॥
अथैनां द्रौपदीवाच - मिष्टामनुवदंस्तदा । भीमोऽभ्यधत्त देवास्ति तत्राज्ञैव ममार्गला ।। १७१ ॥ तत्रादेशं वहन्मूर्ध्नि, पुराऽहं नाहनं रिपुम् । तं जिघांसुमिहाऽऽयावं, न सहिष्येऽधुना पुनः ॥ १७२ ॥ देव ! प्रसादितोऽसि व-मागतश्चेत्स दुर्मतिः । तदा मम गुरुर्न त्वं न विधेयोऽप्यहं तव ।। १७३ ।। हस्तिनापुरसाम्राज्य - गर्व पर्वतमस्तकात् । लीलयैव पराजि त्य, पातयिष्यामि विद्विपम् ।। १७४ ।। अथास्या भीमभारत्या स्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थ, भाष्यलीलायितं दधुः ।। १७५ ।।
१ क्रियाविशेषणमेतत् प्रसूधातोः । २ तिरस्कारम् । ३ ' दत्तापदो दशपदी' इति प्रत्यन्तरपाठः । ४ अधीनः ।
प्रियंवद
विसर्जनम् ।
द्रौपद्या
दीनां
क्रोधो
द्वाराः ॥
॥ १४९ ॥