________________
त्रीशे, न बाधन्ते परस्परम् || १४५ || स प्रज्ञामृतकल्यामिः सेचंसेचमनारतम् | अनपायमुपायद्-नादचे फलमुत्तमम् || १४६|| आकर्णितभवन्मृत्यु- निराशीभूतमानसाः । भीष्माचाश्चक्रिरे तेन सर्वथाऽऽत्मवशंवदाः || १४७ ॥ संप्रत्यावर्जितास्तेन, दानेन विनयेन च । प्राणैरपि समीहन्ते, ते विधातुं तदीप्सितम् ॥ १४८ ॥ आत्मानं मन्यते क्षोणि-पट्खण्डाखण्डलोपमम् । स यद्यपि तथाप्यन्त-वो वहते भियम् ॥ १४९ ॥ अर्जुनात्तरुनानोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निःश्वासान्, कम्पते च मुहुर्मुहुः || १५० वने वृकोदरं कापि दृष्ट्वा स्मृत्वा वृकोदरम् । मृगव्यव्यापृतोऽप्याशु स खिद्यति भयातुरः ॥ १५१ ॥ त्र भीमा-र्जुनौ वीक्ष्य, हुतं जागरितो भयात् । स क्षोभं लम्भयत्येव, भृशं भानुमतीमपि ।। १५२ ।।
इत्याकर्ण्य तपः सूनुः प्रत्युवाच प्रियंवदम् । मदिरा भद्र ! विज्ञाप्यौ, तौ तात- विदुरौ त्वया ।। १५३ ।। निखिलं युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामा भक्त्या वः, क्षोणीमिलितमौलयः ।। १५४ || स्नेहादापदमस्मासु नैवाशक्ि तुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥ १५५ ॥ कृकलासः कृतोल्लास - मारूढः शिखरं वृतेः । व्युत्पश्यन् सतिरस्कारं, मास्करस्य करोति किम् ॥ १५६ ॥ इति धर्मसुतः प्रीतः, समर्प्य प्रतिवाचिकम् । सत्कृत्य त्रन्यसत्कारैविससर्ज प्रियंवदम् ॥ १५७ ॥
तद्धार्तराष्ट्रस्य श्रुत्वा श्रवणदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ १५८ ॥ छचना | मेदिनीं जित्वा कृत्वा मे केशकर्षणम् । दच्छा कान्तारवासं च, रिपुर्नाद्यापि तृप्यति ॥ १५९ ॥ एवं वनेचरानस्मान्, येनागत्य जिघांसति । निर्मर्यादा ह्मकृत्येषु मन्मरच्छुरिताशयाः ॥ १६० ॥ देवि ! वन्ध्येव क्रन्ति । त्वं नाऽमीरप्रसवा