________________
श्री पाण्डव चरित्रम् ॥ सर्गः ८ ॥
॥१४७॥
295
इत्युदीर्णमनःखेद-माकलय्य सुयोधनम् | सदा दुर्नयदुर्गन्धो, गान्धारीबान्धवोऽभ्यधात् ॥ १०० ॥ त्वयि देवेन्द्रशौण्डीर्या-वमन्तरि निहन्तरि । यमगेहानि ॥ १०१ ॥ पाण्डवाः क ? भवान् भूमीमण्डलाखण्डलः क्व च ? । कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः १ ॥१०२॥ यदूर्जितभुजेनेदं त्वया साम्राज्यमर्जितम् । शतांशेनापि तन्नासी- युधिष्ठिरमहीपतेः || १०३ || सावलेपास्तपः सूनो - राज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जाता-स्त वादेशवशंवदाः ॥ १०४ ॥ तन्त्येते हस्तिमल्लस्य, प्रतिमल्ला इव द्विपाः । एते च देवदेवाश्व-वान्धवाः सैन्धवाः पुरः ॥ १०५ ॥ साम्परायिकसंचार-कृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीत चैरित्रातविपत्तयः ॥ १०६ ॥ चम्ररम्हशी विश्वे, स्वते कस्य दृश्यते । तमोपहा रवेरेव, केवलं किरणावलिः ॥ १०७ ॥ श्रीरियं ते कृतार्थीस्यात् पश्येयुर्वेदि पाण्डवाः । दृष्टा मित्ररमित्रैश्व, संपत्संपन्नगद्यते ॥ १०८ ॥ गोकुलालोकनव्याजा- द्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्या - मुपेतान् पश्य पाण्डवान् ॥ १०९ ॥ राजा राज्यच्युतान् भोगी, भोगैः काममपाकृतान् । ससैन्यो निष्परीवारा- नकुशोऽतिकृशाङ्गकान् ॥ ११० ॥ यदा वीक्षिष्यसे तांस्ते, तदा मोदिष्यते मनः । अन्याश्चित्रातपापाये, स्युर्धान्यस्य मुखे श्रियः ॥ १११ ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यधन्ते पार्वणे चन्द्रे, दृष्टे दन्ता हि दन्तिनाम् ॥ ११२ ॥ यद्वीक्ष्यते विपक्षाणां, मानिभिः श्रीर्विषङ्गतैः । स एव मृत्युरेतेषां मृत्युस्तु ननु जीवितम् ॥ ११३ ॥ अथ सत्यव्रतं बन्धो-रनपेक्ष्य शुभैस्तव । सामवायुधं धत्तः, करे भीमार्जुनौ यदि ॥ ११४ ॥ ततो जानीहि संजातं, भूमण्डलमपाण्डवम् । महार्णवमित्रानीकं तत्र को १ ' मुखश्रियः ' प्रतिद्वय० ।
पाण्डवानी कथितो
वृत्तान्तः
प्रियंवदेन ॥
॥ १४७॥