________________
बहिः । बमार भूपसी देव-स्तामन्तर्मनसं पुनः ॥८४॥ मातरः सत्यवत्पाद्या, व्यपद्यन्त शुचाऽनया न हिदावानलज्वाला, सहन्ते मालतीलताः ||५|| विदुराश्वासनावाक्य-महापद्वार्तया च वः। देवः पाण्डरियत्काल-मासीजीवन्मृतोपमः ॥८६क्षा
कीर्तिकवघोद्भूता, संवर्धनीयाधुना तर । पावयन्ती भुत्र देव !, हस्तिनापुरमभ्यगान् ॥ ८७॥ सख्यं मष्याः सुधायाश्च, सितापि युगपत्तदा । अलम्भयदमित्राणां, मित्राणां च मुखानि सा ॥८८॥ तदानीं युष्मदीबैस्तैः, श्रुतैरपि यशोजलैः। देवस्तं निविडं पाण्डः, शोकपङ्कमपाकरोत् ॥ ८९ ॥ स पाण्डुना परित्यक्तः, सर्वः सुखविपर्ययः । साभिमान इबोशि, दुर्योधनमशिश्रियत् ।। ९०॥ न प्रियाङ्कन पत्यके. न बने भवने च न । न स्थले न जले क्वापि, रतिमालम्बते स्म सः ॥९१ ॥ अथाभ्येत्य तथाऽवस्थं, शकुनिस्तमभाषत । धराधर ! तब व्याधि-धिर्वा कोऽयमुत्करः ।। ९२ ॥ येन दावानलज्वाला-दग्धस्थाणूपमं वपुः । बहसे सहसाऽस्माकं, हि दंदयते मनः ।। ९३ ॥ अथाम्यवत्त गान्धारी-तनयो दुर्नयैकभूः । सर्वसहः सहायोऽसि, त्वं मातुल ! ममातुलः ॥ ९४ ॥ पश्य मां विफलारम्भ, कृत्वा जीवन्ति पाण्डवाः । विरोधिनि विधौ पुंसां, वृथैव स्युमनोरथाः ॥ ९५ ॥ विषं पीयूषगण्डपः, पश्य तेषामजायत । जातुपागारदाहोऽपि, पयोवाहजलप्लवः ॥ ९६ ।। हिडम्ब-बक-किरि-वधाडम्बरडिण्डिमः । भुर्भुवःस्वस्त्रयीरङ्ग, तेषां कीर्तिः अनृत्यति ।। ९७ ॥ आजन्म विद्विषो ये ते, जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा, नन्दन्ति प्रतिपत्तनम् ॥ ९८!! धुर्यों मर्माविधामेष, व्याधिर्मा वाघतेऽधिकम् । तदेतस्यागदंकारः, संग्रत्यप्रतिमो भव ।। ९९ ॥
१ अम्रियन्त । : गङ्गा ।