________________
श्रीपाडव चरित्रम् ॥
सर्गः ८ ॥
॥१४६॥
कापि ते पुण्यनामानः, स्वैरं जग्मुः सुरङ्गया । हा ! दग्धाः पाण्डवा एते, सुचैव विलपन्त्यमी ॥ ६९ ॥
ततः कुतूहलाद्गत्वा ते मया पच वीक्षिताः । युष्मदत्यन्तमादृश्यान्मृढोऽषाहमचिन्तयम् ॥ ७० ॥ धूमस्तोमेन नाद्राक्षुः, सुरङ्गाद्वारमाकुलाः । तेनाग्नेरिन्धनीभूताः, स्वामिनो मम पाण्डवाः ॥ ७१ ॥ यद्वा कान्तारदौरात्म्या - देवचे वेनिरे स्वयम् । भवेद्धि तादृशी बुद्धि-र्यादृशी भवितव्यता ॥ ७२ ॥ इति प्रत्यक्षतो जात - युष्मद्यापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्ध्रमरोदिषम् ।। ७३ । जस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वस्मि - स्तेभ्योऽहमधमाधमः ॥ ७४ ॥ मन्वानास्तृणवत् प्राणान, यते त्वामन्वगुस्तदा । दर्शयाम्येष वो वक महं तु प्रियजीवितः ॥ ७५ ॥
ततो गजपुरे गत्वा, दार्ताया वः शुचा जनम् 1 एकं दुर्योधनं मुक्त्वा, स्वसघर्माणमादधाम् ।। ७६ ।। देवेन पाण्डुना छम-मार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्र !, भद्रं मे तनुजन्मनाम् ॥ ७७ ॥ अचीकथं यथादृष्ट- मिष्टेतरदहं तयोः । तावध्यशृणुतां पश्चात्, पूर्व मूर्च्छामगच्छताम् ॥ ७८ ॥ मयोपवीज्य चैतन्यं, लम्भितौ तौ विलेपतुः । हा ! वत्साः ! स्व कथं दग्धा, दद्दनेन दुरात्मना ॥ ७९ ॥ कथं शिक्षाऽस्मदीयाऽपि, विस्मृता वः शुमोदया । यद्वा मतिर्विपर्येति, वेवसि प्रातिकूलिके ॥ ८० ॥ विदुषा विदुरेणाथ, पिता ते समबोध्यत । शोको निर्वार्यतामार्य, मनो धैर्याय दीयताम् ॥ ८१ ॥ सर्वे किमधुना पूर्णाः, पिशुनानां मनोरथाः १ । किं वा प्रियंवदो भ्रान्तः, संशयोऽयं ममाशये ? ।। ८२ । दिनैः कतिपयैरेच, सर्वमाविर्भविष्यति | आपद: संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ ८३ ॥ विदुरस्यानया वाचा, स्वल्पीचक्रे शुचं १ व्यापत्तिः - मरणम् । २ रोदसी - यावापृथिव्यौ । ३ विपरीता भवति ।
पाण्डवानां कषितो
इचान्तः
प्रियंवदेन ||
॥१४६॥