________________
240
का कश्चिदस्मत्प्रियः सौम्य !, क्षेमत्रानः पितामहः । द्रोनः कन्यादान कानि- पूज्यतमोत्तमः ॥ ५४॥ धृतराष्ट्रः
सुखी कच्चि-त्पिता नः पुत्रवत्सलः १ । कच्चिदास्माकमातृणां, ज्यायसीनामनामयम् ॥५५॥ कच्चित् पूर्णाभिलायोऽभू-द्वान्धवो नः सुयोधनः । तत्र प्रदीपनाल, किं च किं च तदाऽभवत् ? ॥ ५६ ॥ कथं च वयमत्रस्था, विदांचकृमहे स्वया । एतत्स्वरूपमस्माकं, प्रियंवद ! बदागतम् ॥ ५७ ॥
अथ प्रियंवदोवादी-देव दुःस्थेपि चेतसि । वर्तन्ते वधुषा तावत् , सर्वे कुशलशालिनः ।। ५८॥ तस्मिन्ननलिहज्वाले, कराले जातवेदसि । दह्यन्ते पाण्डवा हा घि-गित्येवं पूत्कृतं जनैः ॥ ५९ ॥ लोकः शोकाकुलः काम, तं कृशानुं कुशेतस्म् । वेगाद्विध्यापयामास, बाष्पद्विगुणितै लैः ।। ६० ।। प्रदीपनेन नानेन, मम किंचन दह्यते । इत्यौदासीन्यसुस्थोऽहं, न किंचिदुःखमस्पृशम् ॥ ६१ ॥ नेत्रयोः पात्रतां तत्र, मैटित्रीभृतमतयः। दोष्मन्तो युष्मदाकारा, नागरैर्निन्थिरे नराः ।। ६२ ।। असौ धर्मसुतो यस्य, मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया, पार्वणेन्दुमपि श्रिया ॥ ६३ ॥ एप स्थूलवपुर्रमो, भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थी, मुग्धौ सौम्याविमौ यमौ ॥ ६४ । इयं कुन्ती जगन्माता, न माता भुवनत्रये । तुषाराद्रितुषारांशु-शुभ्रा यस्य गुणावली ।। ६५ ।। असौ द्वाधीयसीं निद्रा, गता द्रुपदनन्दिनी । या प्रेयस्यपि पञ्चानामुच्यते स्म महासती ॥६६।। इत्थं निश्चित्य निश्चित्य, देव! युष्मांस्तथा जनैः । रुघते स्म यथा सर्वे, रुदितं पादपैरपि ॥६७॥ (चतुर्मिः कलापकम् )। युष्मद्गुणानुरागेण, वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ज्ञातप्रबन्धस्य, विकल्पो मम चेतमि ॥ ६८॥
(१ मटि-शूलपकमांसम् , अर्थदग्धमित्यर्थः ।)