________________
एर साश्वत ॥ २१० उपेला पियाबास, नधा काशिभूपतिम् । यथा विचित्रवीर्याय, स्वयं प्रादादसौ सुताः ॥३२५।।
स प्रीतिस्फारनेत्रामि-स्ताभिर्वालाभिरन्वितः । हस्तिनापुरमारब्ध-महोत्सवमुपाययो॥ ३२६ ॥ स वैवाहिकमाङ्गल्यास्तिस्रस्ताः काशिनन्दिनीः । भ्रात्रा विचित्रवीर्येण, प्रमोदादुदवाहयत् ।।३२७॥ ताः प्राप्य नृपतिः प्रेम-रसैककनकाटुकाः।।। सिञ्चन् पश्चापि विषयान् , सिपेवे सोऽतिशावलान् ॥३२८|| इषून् पश्चापि पश्चेषः, प्रक्षिपन्नपि लक्षशः। प्रेयसीनामसौ मान्य, इति | तस्य प्रियोऽभवत् ॥ ३२९ ।। कामोऽनासक्तिसेव्योऽपि, तेनादृश्यत गौरवात् । प्रायेण यौवनान्धानां, सुलभो हि विपर्ययः
॥ ३३० ।। ततो विचित्रवीर्यस्य, संग्राप्तावसर: स्मरः । धर्मार्थों जनसे राहुः, सूर्याचन्द्रमसाविव ॥ ३३१ ॥ स प्रेयसीनां तिमणां, यचतुर्थः सदाऽभवत् । तल्लोके लोकपालानां, भवति स्म न पञ्चमः ।। ३३२ ।। कामासक्तस्य तस्येत्थं, प्रावर्तन । बलक्षयः । अनङ्गेऽतिप्रसङ्गो हि, विरङ्गायैव केवलम् ।। ३३३ ।। क्षीयमाणबलं ज्ञात्वा, गाङ्गेयस्तमवोचत । असौ दोपस्त्वयि स्वच्छेवत्स! त्रासो मणाविच ।।३३४॥ पीनवर्मितसङ्गिान् , कथं शत्रून विजेष्यसे ?। अनङ्गेनापि कल्याणिन !, यस्त्वमेवमजीयथाः ॥ ३३५॥ धर्मार्थादेव न परं, कामासक्तस्य नश्यतः । मूलं सर्वपुमर्थानां, बपुरप्यपचीयते ॥ ३३६ ॥ दुःसहाः पुष्पचाणस्य, बाणाः पुष्पमया अपि । यतेऽभवंस्ततः प्रौटान् , सोढासि कथमायसान् ! ।। ३३७ ॥ व्यधीयत नवैताभि-रचलाभिर्बलक्षयः । बलबद्भिस्तु रुदस्य, न जाने किं भविष्यति ॥ ३३८ ॥ कुरङ्गाक्षीषु नात्यन्त-प्रसङ्गः संगतः सताम् ।
१ आलुः-पात्रविशेषः ‘मारी ' इति भाषायाम् । २ (अत्र च दीर्धकरणम् 'न तिसूचतस-(६।४।४) इति पाणिनीच1 सूत्रविरुद्ध शेयम.) तिमृणां प्रेयसीनां स" इनि वा पाठो शेयः, प्रतित्रये विमृणामिति पाठः ।