________________
जैत्र- मित्युत्सेकपरे मयि । तृणं त्रिलोकीमध्येतां मन्यमाने च नः प्रभौ ॥ ६७१ ॥ तेन उद्यप्रमीतेन, परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौ - पराघर्यविपर्ययः ।। ६७२ ।। (त्रिभिर्विशेषकम् ) वकवक्षःस्थलारूढः स प्रौदजविक्रमः । मुष्टिमुद्गरसुद्यम्य, नीतिमानिदमम्यधात् || ६७३ || स्वयं दोष्मन् ! पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां तु नित्यं हरसि लीलया ।। ६७४ ॥ अमारिं कारयांचक्रे, लङ्केशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा १ ।। ६७५ ।। इदानीमपि दुष्कर्म, दूरान्मुञ्चसि चेदिदम् । तद्भवत्वभयं तुभ्यं, नष्टं नाद्यापि किंचन ।। ६७६ ॥ तस्य तेनातिसान्नाऽपि, प्रभुरभ्यधिकं क्रुषा । जाज्वल्यते स्म राज्य मित्र चन्द्रनन्दिना ।। ६७७ ॥ अभ्यधाच्च किमाचार्य, इव वाचाल ! जल्पसि । एता वाचो न मे किंचि-चरन्ति श्रवणान्तिके ।। ६७८ ॥ क्षुधातेः कल्यवते स्वां, विधाय विधिनाऽधुना । सर्वासामपि दास्यामि, त्वद्वाचामुत्तरं ततः॥ ६७९ ॥ इत्युदीर्य स्वधैर्येण, प्रतिष्ठासुर्भृशं प्रभुः । पूर्वकायेन नितरा-मुस्पपात पपात च ॥ ६८० ॥ आक्रान्तस्यापि तेनोच्चैः, स्वामिनश्रेष्टया तया । रक्षोलोकस्य शोकेऽपि, हास्यमास्ये समुद्ययौ ।। ६८१ ।। सोऽस्यधानः प्रभुं भूयस्तदरे ! स्मर दैवतम् | महामांसाशिनां कापि, न हि कल्याणसंपदः ॥ ६८२ ॥ इति व्याहृत्य तेनाथ, नाथोऽस्माकमनाथवत् । मूर्द्धानं मुष्टिना भिखा प्राप्यतैकोऽपि पञ्चताम् ।। ६८३ ।। विद्याविदितत्तान्तः, सुमायश्च तदैव सः । विहङ्गराजवेगेन, व्यावृत्त्येह समाययौ || ६८४ ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं स्त्रीचक्रे सांयुगीनताम् ।। ६८५ || शक्तेऽस्मिन्नोचितं युद्धं तद्भतयाऽभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य, रुद्धः संवर्मयन्मया ।। ६८६ ॥
१ प्रातर्भोजनरूपम् । - गरुडवेगेन । ३ युद्धसदाम् ।