________________
५४
बद्धाञ्जलिरथोवाच भूपतिस्तपसः सुतम् । एकचक्राप्रजाप्राण-सत्रिन् ! कल्याणमस्तु ते ।। ६३९ ॥ यतः प्रभृति कल्याणि - पागा नगरीमिमाम् । ततः प्रभृति पौराणा-मभूदभ्युदयो महान् ||६४० ॥ इदानीं तु समानीते, चके कीनाशदासताम् । संजातोऽस्यशरण्यानां प्रजानामभयप्रदः ॥ ६४१ ॥ अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ ६४२ ॥ जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान्। चिराय वरिवस्यन्तु संवित्रीः स्वाः सुता अपि ||६४३ ।। एतत् कथ्यतां सौम्य !, कतमस्ते सबान्धवः । इन्द्रेण पाकवचक्रे, बको येन यमातिथिः १ ।। ६४४ । ततो धर्मात्मजस्तस्मै, कथयामास लीलया । मधुः सैष कनीसान्ये, संपदा ॥ ६४५ ।। तदुपश्रुत्य सर्वेषा - मेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा, विकसत्पक्ष्मसंपुटाः || ६४६ ॥ निमेषविमुखाः कोडी - कृतानन्दाश्रुविन्दवः । जीवितव्यप्रदे भीमे, निपेतुर्युगपदृशः ॥ ६४७ ॥ ( युग्मम् ) अथ पप्रच्छ निःशोको, लोको बकनिषूदनम् । कथ्यतां प्रधयां चक्रे, कथं चकत्रधस्त्वया ॥ ६४८ || इमामुदाहरिष्यामि कथां कथमिवात्मनः १ । इति तूष्णीं स्थिते भीमे, जने चावहितेऽधिकम् ॥ ६४९ ।। अवतीर्य नभः क्रोडात्, पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धव, पुरुषावेत्य तन्यतुः ॥ ६५० ॥ ( युग्मम् ) तयोरुवाच वर्षीयान् विस्मितं धर्मनन्दनम् । बकराक्षनराजस्य, दुर्बुद्धिः सचित्रोऽस्म्यहम् || ६५१ ।। अयं महाबलो नाम, धाम धाम्नां तदात्मजः । निजान्वयपुरीं लङ्कां समयेऽस्मिन् गतोऽभवत् ||६५२|| व्यावृत्तस्त्वधुनाऽपृच्छत् केनेत्थं मे पिता इतः १ । मयाऽऽख्यायि महाकायः कोऽप्यद्यागात् पुमान् बलिः ||६५३ || जज्ञेतमां तमालोक्य, स्वामिनो नो मनोरथैः ।
१ यमराजदासत्वम्-मरणमित्यर्थः । २ पूजयन्तु । ३ मातृः । ४ पुत्राः ।
I