________________
अथ व्यापारितस्फार-फालमालोक्य तं तदा । तेषां रोमोद्गमव्याजात् , सर्वाङ्गमुदित मुदा ।। ६०७ ॥ अथ स्फूर्जदबष्टम्भमभाषिष्ट युधिष्ठिरः । बन्धुमिो मदीयः किं, सक्षसैः परिभृयते ! ॥६०८ ॥ भवितारस्तरां पञ्चा-प्यजय्या जगतोऽ. प्यमी । इयं नो भारती दिव्या, जन्मोत्था हि किमन्यथा ? ॥ ६०९ ॥ गतिं भवन्तो गन्तारः, क्रमान् पश्चापि पश्चमीम् ।। इत्यारूपापिनीन्द्र--नाइस पनिगु । ६.० एत्रमस्मिन् वदत्येव, वेगादेत्य वृकोदरः । कुन्नी च ज्येष्ठबन्धुं| च, नमस्यामास सादरम् ।। ६११ ।। दात् प्रणमतो बन्धून् , ममालिङ्गय कनीयमः । स्मितोत्फुल्लमुखो भीमः, पप्रच्छ क्षोभकारणम् ।। ६१२ ॥ अथ पार्थः समाचख्यौ, यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप, चक्षुः कृष्णादिक्षया ।। ६१३ ।।
दृष्ट्वा कृष्णां तथाभूतां, चितानिकटवर्तिनीम् । स गन्ना पिदचे तस्याः, पाणिभ्यां क्रीडया दृशौ ।। ६१४ ।। भयेन | वेपमानाङ्गी, कृष्णाऽथ गिरमाददे । रात्रिंचर ! दुराचार !, रे! पाप ! परतो भव ।। ६१५ ॥ आर्यपुत्रस्य भीमस्य, च्छलावधविधानतः । अद्रष्टव्यमुखोऽमीति, मया नेत्र निमीलिते ॥ ६१६ ॥ मम प्रियवधे हस्तौ, यो तब व्यापृतौ पुरा । उपदण्डोचितौ दुष्ट :, तावेतौ दूरतः कुरु ॥ ६१७ ॥ हृतैवाहं पुरा हन्त !, जीवितेशवधाच्चया। रे! दुरात्मभिदानीं तु, कुरुवं मृतमारणम् ।। ६१८ ॥ कान्तमन्वेतुकामाऽह-मारोहामि स्वयं चिताम् । निजागस्पर्शतः पाप !, मा मा मां मलिनीकुरु । ॥ ६१९ ।। नाद्याप्यसो भयं शत्रो-मुश्चतीति विचिन्तयन् । अपसार्य निजौ पाणी, भीमस्तामिदमभ्यधात् ।। ६२० ॥ प्रिये ! द्रौपदि! मा भैपी विलोकय निराकुला । पुरस्ते न वयं रक्षो, रक्षोपाती तु ते प्रियः ।। ६२१॥ पङ्कजोत्फुल्लनयना, नयनाभ्यासुदैवत | सा प्रेयांसमुदाराङ्ग, नोत्तमाङ्गं तु तत्पुरः ।। ६२२ ।। दिष्ट्या मे जीवितव्येशः, कुशलीति मुदं पगम । किं नु |