________________
श्री पाण्डव
चरित्रम् |
सर्गः ७ ॥
॥१४०॥
2-79
सोमं धर्मनन्दनः । भीमं इत्वाऽयमभ्येति हन्तुमस्मान्निशाचरः ॥ ५९२ ॥ शीर्षच्छेद्यो यसौ दिषा, स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ ५९३ ॥ विचिन्त्येत्यवदत् पार्थ, त्रत्मागच्छति राक्षमः । अस्य जीवितमादाय, भीममुजीवय द्रुतम् ॥ ५९४ ॥ इत्यादिष्टः सकोपेन, किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ ५१५ ॥ कुन्ती तु चिन्तयामास, पार्थः कर्षति संप्रति । राक्षमापनस्यास्यो - दरादाशु वृकोदरम् || ५९६ || अस्मिन् कृतान्तपादान्त - परिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तत्रत्सलम् ॥ ५९७ ॥ चक्रे मनसि कृष्णाऽपि भवात् कृष्णमुखी ततः । हा ! हताऽस्मि पतीनेतान् हन्तुमेति क्षत्राचरः ॥ ५९८ ॥ यत्र निर्नाम निर्मनं, भीमस्यौजो महौजसः । तत्र पार्श्वस्य शौण्डीर्य, किं नु नाम करिष्यति १ ।। ५९९ ॥ दुष्टस्य यस्य निर्व्यूढ श्रण्डांशावपि चण्डिमा । ग्रसते स सुधारडिंग, राहुरत्र किमद्भुतम् || ६०० ॥ तन्मे भवधं वेधा, दुर्मेधा दर्शयिष्यति । न च वीक्षि तुमेतं च, क्षमेते मम लोचने ।। ६०१ ॥ इत्यालोच्य चिताभ्यर्णे, निमील्य नयने निजे । तथैव भृशमस्वस्था, तस्थौ डुपदनन्दिनी || ६०२ || देवशर्माऽपि सावित्रीं, स्वकलत्रमभाषत । उत्पातस्याहमेतस्य, संजातोऽस्मि निबन्धनम् ।। ६०३ ।। निहतो बन्धुरेतेषां शोरविषये मम । रक्षमा हन्यमानांस्तु, द्रष्टुं शक्ष्याम्यमून् कथम् १ ||६०४ ॥ तचेदुबन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्येयं स्वयं चेद्वा स्यात्तदैव मम प्रियम् ।। ६०५ ।। इति जल्पत एवास्य कुर्वन् किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः । ६०६ ॥
१ वालयित्वा । २ अनुगमिष्यामि। ३ नामरहितम् ।
बकासुरोपद्रवः ॥
1128011