________________
तनूजैस्तैस्ततः कुन्ती, वीजिता प्राप्य चेतनाम् । पर्यदेवत हा ! वत्स, सस्वोदार ! वृकोदर ! || ५७८ || मुनिभिर्वज्रकायस्त्वं, कथितस्तत् कथं वकः । मृणालकन्दलीछेद-मिदं चिच्छेद ते शिरः १ ॥ ५७९ ॥ तत्रैतस्योत्तमाङ्गस्य, क्रियेऽहमवतारणम् । पुरा येन गिरिशावा, भचूत ॥ ८ ॥ मायोक्ती - तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ? ॥ ५८१ ॥ तेषु तेष्ववदातेषु, मुहुराघ्रायि यो मया । सोऽयं सन्मूर्द्धजो मूर्द्धा, कथं लुठति भूतले १ ॥ ५८२ ॥
इत्थं त्रिसंस्थुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्द्धानं द्रौपदी विदधे हृदि || ५८३ ॥ व्पलपत्तुमुलं साऽपि, पादपान्तरिता ततः | हा ! नाथ ! मथिताराते !, क गतोऽसि विहाय माम् || ५८४ | मया प्राणेश ! ये केशा, विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी, विलुठन्ति भुवस्तले ॥ ५८५ || विद्रुमाभः पुरा योऽभूत्, सुधास्वादुस्तवाधरः । विविधि सोना धत्ते, प्रम्लानेन्दीवरश्रियम् ।। ५८६ ॥ अध्यशेत ममोत्सङ्गे, यः शयालुरनेकधा । अयं स एव मौलिस्ते, गाइते ही महीतलम् ॥ ५८७ ।। जानीयास्त्वमिदानीं मा-मात्मान्तिकमुपेयुषीम् । एवं विलप्य पाञ्चाली, चितामारचयत्तदा ॥ ५८८ ॥ राज्यभ्रंशं प्रवासं च, विना भीमेन दुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे ।। ५८९ ॥ अहमेवाभवं हेतु-रेव मम । इति निश्रित्य संनर्द्ध, भृत्यवे देवशर्मणा ॥ ५९० ॥
अधाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः । गुहागरवर्धिष्णु-र्मुहुः किलकिलाखः ॥ ५९११ || श्रुत्वा तं चिन्तयामास, १ सुकेश: । २ अयोग्ये ।