________________
श्री राण्डव परिश्रम् ॥
सर्गः ७ ॥
॥१३८॥
श्रीमहोदर आनात् पुमान्न यो माति, विपुलेऽपि शिलातले || ५३४ ॥ असौ बुभुक्षावामस्य, भूत्वा कुचिमरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः || ५३५ ॥ इति प्रमुदितस्वान्तो दन्तान् सोऽत्यन्तदारुणः । देहे व्यापारयामास, मांसले पाण्डुजन्मनः ॥ ५३६ || भीमस्य वज्रकायस्य, काये व्यापारिता अपि । अत्रापुः कुष्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ ५३७ ॥ भीमवक्षःस्थले स्थूलं - मावुकशुकुमोदयः । खननोपक्रमं चक्रे, नखकुद्दालकैचकः ॥ ५३८ ॥ त्रटत्कारकरास्तस्य. नखरास्ते खरा अपि । मृणालकदलीभञ्ज, भज्यन्ते स्म समन्ततः ॥ ५३९ ॥ विस्मितs विलक्षs, लखितः सवित्र सः । रक्षोनिवहमाद्वास्त, समस्तं स्त्रस्य संनिधौ । ५४० ॥ ऊंचे च नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन् भूभृति भूयांस-मनेईसमलङ्घयम् ।। ५४१ || परं न कोऽप्यभूदीह-कपुरुषः परुषच्छविः । न च स्थिरो न च स्थूल-वनव्यकुतोभयः ॥ ५४२ || तदेनं स्वे नगे नीत्वा, तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभत्रम् ॥५४३ ॥ तदवश्यमुदस्यध्व- मेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रु - रुद्दामबलशालिनः || ५४४ || भीमभारभराक्रान्ता, मुखेनोद्वान्तशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ।। ५४५ || अथ संभूय भूयोभि-स्तैः समं बकराराक्षसः । भीमं कथंचिदुत्पाट्य, निनाय निजभूवरम् || ५४६ ||
इतः साकं कुटुम्बेन, विलापचिकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ॥ ५४७ ॥ दूरादधिगृहद्वार-मदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं, जालः काननं ययौ ॥ ५४८ ॥ ( युग्मम् ) तत्रालोक्य गदां पाद-संमर्द च शिलान्तिके । १ कालम् । २ भोजनम् । ३ पक्षिभिर्वाचालम् । ४ धावकः ।
चकासुरोपद्रवः ॥
॥१३८॥