________________
274
सामर्थ्ये, घरायां वार्षिसीमनि । ये सर्वप्राणिरक्षार्थं, ददत्यमयडिण्डिमम् || ५१०९ || ये तूपकारकस्यापि विपस्रर्धा निपेतु॑षः । निविडं नोडपायन्ते, तेषामजननिर्वरम् ॥ ५२० || महाऽऽपदमपाकर्तुमेतामस्योपकारिणः । अहं न चेदलंभ्रूष्णु-स्तन्मां धिक् धिक् च मे सुतान् ।। ५२१ ।। तद्गच्छ बलिमादाय, निवासं तस्य रक्षसः । विदधीथास्तथा तत्र, सत्यः स्यात् केवली यथा ।। ५२२ ॥ एवमादेशमासाद्य, मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप, कोद्यानं वृकोदरः || ५२३|| पश्यन् स्मेरमुखस्तस्य, वनस्य कमनीयताम् । पुरतः पुरुषं कंचि दृष्ट्वाऽभाषिष्ट पाण्डवः ।। ५२४ | शं मे भद्र ! कस्यायं प्रासादः प्रांशुरग्रतः ? | कश्च त्वं कुत्र वा तिष्ठ द्रक्षोभक्ष्यः पुमानिह ? || ५२५|| सोऽवोचन् कारितः परैः प्रासादः सैव राक्षसः । स्थाने चास्मिन् बलिः शेष-राक्षसेभ्यो निधीयते ।। ५२६ || अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते, वयो वयशिलामिमाम् || ५२७ ॥ महात्मन् ! कौतुकात् किं तु, किंचित् पर्यनुयुज्यसे । त्वादृग्लोकत्रयीजैत्र-भुजः कोऽप्यत्र नायखौ || ५२८ || नाप्यस्ति वध्यवेषस्ते, न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् ।। ५२९ ॥ इति प्रश्नपरे तस्मि - अकस्मादेव दुःश्रवः । पुरो याहि पुरो याही-त्येवं कोलाहलोऽभवत् ।। ५३० ।। तं श्रुत्वा स पुनः प्रह, नन्दसावेति राक्षसः । ततो व्यवहितो भूला देव ! स्थास्यामि संप्रति ॥ ५३१ ॥ इत्युक्त्वाऽन्तर्हिते तस्मिन् दूरादायाति राक्षसे । पल्यशिकामिव शिलां, लीलयाऽध्यास्त पाण्डवः ।। ५३२ ।।
"
अतः स प्रेत-पिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ॥५३३|| अचिन्तयच्च कोऽप्यद्य, १ पतितस्य ।