________________
2-15
बकासुरोपद्रवः॥
भीपाम्टव चरित्रम् ॥ समः॥ ॥१३७॥
| नैपिभिः । उपयाचितलक्षाणि, पौरैः प्रत्येकमीपिरे ।। ५०४ ॥ ( पुग्मम् ) हस्तिनापुरमार्गेण, नानोपायनपाणयः । प्रत्युद्ययुश्च : ते नित्य, पाण्डवेयान प्रति प्रगे ।।५०५॥ जनानां जानतामेता-नद्यश्वीनममागमान् । एकदा पथिकः कश्चि-दाययौ तेन वर्मना ॥ ५०६ ॥ स तैरप्रच्छि भोः पान्थ !, कथयास्मिन् पथि कचिन् । उदन्तः पाण्डवेयाना, कश्चित् कचित्त्वया श्रुतः ? ॥ ५०७ ॥ शसंस सोअपि भोः पौरा, पथि चंकमणक्रमात् । आमतोऽस्मि श्रियो वास-चारिजे धारणावते ॥ ५०८ ।। जनेभ्यस्तनिवासिभ्यः, सत्रापेभ्यः पदे पदे । इति कर्णविषं तस्मि-अधौषमतिदारुणम् ॥ ५०९॥ दुर्योधनस्य वचसा, वसन्तो जातुपे गृहे । इह चण्डाः सुताः पाण्डो-दहिं प्रापुः प्रदीपनाद ।। ५१०॥ इहानुजीविभिस्तेषा, विरचय्योचिताश्चिताः। प्राणास्तेनैव सार्थेन, प्रहिताः प्रभुवत्सलैः ।। ५११ ॥ वीक्ष्य भस्मस्थलीः स्थूलाः, कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त, बाप्पैः कूलंकषा दृशः ॥५१२॥ अथावेद्य कथामेतां, स पान्यः प्रस्थितः पुरः। आक्रन्दचकचक्रायां, चक्रेऽतितुमुला दिशः ॥ ५१३ ॥ न मातुर्न पितु व, स्वामिनो मृत्युबातया । अभवत्तादृशः शोकः, पौराणां यादृशस्तदा ॥ ५१४ ॥ निःप्रत्याशैनिरानन्दै-स्ततः प्रभृति नागरैः । पूर्यते यातुधानस्य, विशेपेण मनीषितम् ॥ ५१५॥ तदिदानी द्रुतं यामि, प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं, जज्ञेऽनुज्ञाञ्जलिमम |! ५१६ ।। इति व्याहृत्य धैर्येण, संवर्मितमनास्ततः। सकुटुम्बोऽप्यगाद्विप्रः, प्रणन्तुं कुलदेवताम् ॥५१७॥
अथाम्पधात् पृथा भीम, वत्स! त्वयि तनूरुहे । एकस्यापि द्विजस्वास्थ, नाभवमभयप्रदा ॥ ५१८ ।। धन्यास्ते सति १ राक्षसस्य ।
॥३७॥