________________
अक्षामस्थामधाम
पाप पुरः शैल-पल केवलियो
नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन, कः काचं परिरक्षति ? ॥ ४८९ ।। मादृशस्य द्विजस्यार्थे, नररत्नं मवादृशम् । राक्षसायोपनेतन्य-मिति कोऽन्योऽपि मन्यते ।। ४९० ।। त्वादृक्षो विरलः कोऽपि, परोलक्षास्तु मादृशाः। स्वल्पः कल्पतरुलॊके, भूयांसोऽन्ये हि भूरुहः ॥ ४९१ ।। प्रियन्ते पञ्चषाण्येव, मानुषाणि मृते मयि । अस्या मूर्तर्विपचौ तु, सर्वा सीदति मेदिनी ॥ ४९२ ।। एतौ तव भुजौ वीक्ष्य, स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं, न पुनर्यकराक्षसः ॥ ४९३ ॥ बक एव बको यद्वा, तव दो-पाशयोः पुरः । केवलं केवलिपोक्ता, गिरः संशयकारणम् ॥ ४९४ ॥ यतोऽमुध्यां पुरा पुर्या, केवली
मुनिराहतः । उदियाप पुरः शैल-चूलायामिद भास्करः॥ ४९५ ॥ सर्वे वन्दारवः पौरा-स्तदम्यर्णमुपाययुः । सोऽपि कारMaणिकस्तेभ्यः, परं धर्ममुपादिशब् ॥ ४९६ ।। तेनोपदेशपीयूष-मानेन प्रसरन्मुदः । समये विश्वमार्तण्डं, मुनीन्द्रं तेऽन्वंयुञ्जत
॥ ४९७ ।। प्रभो ! प्रसीद सीदन्ति, पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य, राक्षसोपद्रवः कदा! ।। ४९८ ॥ मुनिनाथोऽप्यथाऽऽचख्यो, भो ! भद्राः पाण्डुसूनवः । जिता द्यूते यदैष्यन्ति, बनवासक्रमादिह ।। ४९९ ॥ असौ तदानीं भविता, नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचा, महिमा हि महात्मनाम् ॥ ५००॥ इत्याख्याय स लोकाय, जगाम मुनिपुङ्गवः । तादृशां हि महीं सर्वां, प्रियीकर्तुमुपक्रमः ।। ५०१॥
तेन चन्द्रातपेनेव, मुनिन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोले- गराः सागरा इव ।। ५०२ ।। चर्णा अपि सुधाकीर्णाः, पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति, पुमांसः कीदृशाः पुनः ।। ५०३ ॥ इत्युक्तः कुलदेवीम्यः, पाण्डवागम
१ वन्दनशीलाः । २ अपृच्छन् । ३ । प्रिया' प्रियां' इति प्रत्यन्तर० ।। अक्षराणि ।
यां ' इति प्रत्यात ५०३ ॥ इत्युक्तैः कुलदेवा अपि सुधाकीर्णाः,