________________
/
मयो बलिः ॥ ४५८ ॥ तदेनं बलिमादाय, मातर्नुपनिदेशतः। पर्यायोपगतः सोऽहं, यास्यामि विपिने धुना ॥ ४५९ ॥ तनिराशं निरालम्ब, कुटुम्ब मम रोदिति | आश्रयदुमनाशे हि, दीनाः क्रोशन्ति पक्षिणः।। ४६० ॥ किं चान्यत संकटं यन्मे, तन्मातः शृणु संप्रति । यदेपा ब्राह्मणी वक्ति, मामिदानी पुनःपुनः ॥ ४६१ ।। किं कार्यममुना नाथ !, स्वां विना जीवितेन मे। सापत्याऽपि भृशं लप्स्ये, त्यहते हि पराभवम् ॥ ४६२ ।। ततोऽहमुपहाराय, तस्य यास्यामि रक्षसः । अल्पायुस्त्वं पुनर्भूया, भुञ्जानो भूयसीं श्रियम् ॥ ४६३ ॥ त्वत्प्राणत्राणकारिण्याः, कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छत्तु-अतिच्छेकाः कुलस्त्रियः ॥ ४६४ ॥ भुक्तं मृष्टं सुखं स्पृष्ट, दृष्टं मुखमपत्ययोः । स्वतः किं किं मया नाप्तं ? नास्ति मृत्योभयं मम ।। ४६५ ॥ वजन्तं केवला नेयं, मां रुणद्धि सधर्मिणी । असावण्यात्मजेदानीं, सुदती बदतीति नौ ।। ४६६ ।। मा मातर्मा स्म वा तात, गच्छतं रक्षसो मुखे । आहारमुपहारं च, कतुं तस्योद्यनाऽस्म्यहम् ॥ ४६७ ॥ बालो यद् युवयोरेव, जीवतोष जीवति । मातापि तातशुश्रूषां, करोत्वाकल्पजीविनी ।। ४६८ ॥ यदि मां नानुमस्येथे, युवा नास्मि तथाप्यहम् । युयोर्गेहवास्तव्या, परार्था हि पतिवराः ॥ ४६९ ।। इति कुन्ति ! कुटुम्ब मां, नानुजानाति भृत्यवे । अनुमन्येऽहमप्येतत , कथं रक्षोमुखे पतत् ॥४७॥ आदेशस्तु नरेशस्य, सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः, पतितोऽस्म्यत्र चैनसे ।। ४७१ ॥
इति विग्रे वदत्येव, काशकम्बा विलोलयन् । वेगादागत्य बालस्ता-नवोचत् पञ्चहायनः ॥ ४७२ ॥ मा रोदीस्तात ! मा स्माम्ब ! रोदीर्मा स्म रुदः स्वसः। अनया कम्बया गत्वा, तं हनिष्यामि राक्षसम् ॥ ४७३ ।। मुहुर्मुहुर्घवचेवं, चालयंस्तां
१ पर्यायेण-अनुक्रमेण उपगत्त:-प्राप्तः । २ स्वाविष्टम् । ३ विन्ने ।