________________
युधिष्ठिरा
भीपाण्डव चरित्रम् ॥ सर्यः७॥
देशेन
॥१३॥
च्छ या निजं सम, नीत्वा काममपूजयत् ॥ ४११ ।। अभणच गुणश्रेष्ठं, ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव ! देवेन, योजितः किंचिदयसे ॥ ४१२ ।। इदं मे देश्म तामेतां, पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमा पुत्रीं, जानीयाः सर्वमात्मनः ।। ४१३ ॥ वसन् गेहे सुखेनात्र, पवित्रय पुरीमिमाम् । मरत्ना रत्नगर्नेति, बनो जानातु संप्रति ।। ४१४ ॥ तथेति प्रार्थनां गुर्वी, प्रतिश्रुत्य युधिष्ठिरः । चक्रे कटम्बसमस्या, निवास तस्य तेश्मनि ॥ ४१५ ॥ विप्राचारभृतो बाह्य, स्वान्ते तु परमार्हताः । ते धर्मकर्मठास्तत्र, वासरानत्यवाहयन् ।। ४१६ ॥ श्वश्रूशुश्रूषणप्रीत-चेताः पाश्चालनन्दिनी । पुत्रीणीतिपरा तस्या, कुन्ती चानर्चतुर्जिनम् ॥ ४१७ ॥ कुटुम्बस्यानुकूल्येन, प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांचक्रु-रेकचक्रानिवासिनः ।। ४१८ ।। सावित्री नाम तस्यास्ति, कलत्रं देवशर्मणः। तया वैनविकात् कुन्न्या, मनः परवशीकृतम् ॥ ४१९ ॥ कुन्ती कृष्णासधर्माण, स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ, गङ्गा-दामोदराभिधौ ।। ४२०॥ सा तेन सहवासेन, विस्मृतात्मनिकेतना । अनेकान् गमयामास, मासानेकाहलीलया ॥ ४२१ ॥
अन्यदा पवमानस्य, तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः, स्वैरसंचारशालिषु ॥ ४२२॥ देवशर्मकुटुम्बस्य, कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन, भिन्नेत्र हृदयेऽभवत् ॥ ४२३ ॥ युग्मम् ।। गत्वाऽथ देवशर्माणं, सा जमाद सगद्गदम् । तर वत्स! कुतोऽमूल-मेतदुःखं सुदुःसहम् ? ॥ ४२४ ॥ अथासौ कथयामास, कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्ट-मतिकष्टमजायत ।। ४२५ ।। पुरोपरि शिला गुर्वी, दर्शिताकाण्डविवरा । समालोक्पत कल्पान्त
१ पृथ्वी । २ पुत्री च पुत्रश्चेत्येकशेषे पुत्रौ।
हिडम्बा गर्भवती स्वस्थान गता । पाण्डवाना मिकचक्राय निवासो ब्राक्षण
॥१३४॥