________________
मानसा | कान्तारार्णवमालोढ्य, तवाभ्यर्णमुपागमम् || ३६६ ।। इति वृत्तान्तमावेद्य, समुत्प्लुत्य विहायसा । सा द्रौपदीमुपादाय, पाण्डवानामुपानयत् ।। ३६७ ।। स्रोतस्विनीररण्यानी-स्ते बहुच शिलोच्चयान् । हेलयैव हिदम्बायाः, साहाय्येन ललहिरे || ३६८ ॥
अथाधमर्णमन्याभ्यां हिडम्बायाः पदे पदे । निवेश्य कुन्ती कृष्णाभ्यामभ्यधीयत मा रहः ॥ ३६९ ॥ भद्रं तोपकाराणा-मियचैव न विद्यते । आवां त्वस्यामवस्थायां किं ते प्रत्युपकुर्वहे ? ।। २७० ।। तथाऽपि ब्रूहि कल्याणि !, किंचिदीप्सितमात्मनः । काचिदानृण्यकरणा-यथा स्यात् प्रीतिरावयोः || ३७१ ॥ अथोवाच हिडम्बाsपि, कुन्नीं प्रति कृताञ्जलिः । विश्वोपकारिणि ! काहं १, क च त्वं पाण्डवप्रः १ ॥ ३७२ ॥ किं तवोपकरिष्यन्ति, राक्षस्यो देवि ! माध्शः १ । उपकुर्वीत किं नाम, दरिद्रश्चक्रवर्तिनः १ ॥ २७२ ॥ उपकुर्वन्ति सन्तस्तु पूर्वानुपा अपि । केनाप्युपकृता किं नु लोकं प्रीणाति चन्द्रिका ! ॥ ३७४ ॥ विज्ञापयामि तदपि स्वं किंचन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया बत्रे वृकोदरः ॥ ३७५ ॥ तत् प्रसीद तथाssधेहि, यथा स्वादेष मे वरः । एवं संबन्धमावाय, स्वस्य मां कुरु किंकरीम् ।। ३७६ ।। इत्याख्याते तया कुन्ती, स्नुषाया मुस्वमैक्षत । साऽपि विझा कृतज्ञा च जगाद मुदितानना ॥ ३७७ ॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा १ ।। ३७८ ।। ततः स्वयं समुत्थाय ताम्यामस्वेत्य चान्तिके । अनिच्छन्नपि भीमस्तां, प्रेमा परिणायितः || ३७९ ।। सर्वर्तुरमणीयानि, कृत्वोद्यानानि विद्यया । कृत्रिमं
१ पर्वतान् । २ पूर्वमनुपकृताः । ३ बलान ।
२३