________________
द्रौपचा
बने पाण्डवेम्यो विश्लेषः।।
श्रीपाण्डवस तेष्वेव, पदेषु सपदि स्थितः । अहो! महानुभावानां, प्रभावो दुरतिक्रमः ।। ३५१ ।। मुक्ता विधुतदेनेव, दीपिना तेन चरित्रम् ॥ पाप्मना । सितदीधितिलेखेव, सा भृशं शुशुभे तदा ।। ३५२ ॥ त्रिभिर्विशेषकम् । प्रियोपस्थायिनं मार्ग-मविदन्ती मनागपि। सर्मः ७॥ यूथच्युतकुरङ्गीव, शून्यं बभ्राम सा बने ।। ३५३ ॥ निःशक दन्दकेन, सा ब्रजन्ती यदृच्छया । दुष्टेन दुष्टुमारब्धा, तमप्येव
मवोचत ॥ ३५४ ॥ कायेन मनसा वाचा, चेन् पश्चापि न वञ्चिताः । मया कदापि प्रेयांमः, मर्प ! सर्प तदान्यतः ॥३५५॥ ॥१३२॥
इत्याक्षिप्तस्तया मधु, ययौ सोऽपि मुजंगमः। वाचस्पतेरपि सती-महिमा न हि गोचरः ।। ३५६ ॥ यदुष्णकिरणः कृष्णां, सती पादैरुषास्पृशत् । तन्मन्ये सद्य एवायं, मजति स्म तदाम्वुधौ ।। ३५७ ।।
अयाचक्राम दिकचक्र-मुच्छ्रङ्खलतम तमः । सर्वातिशायी शोकच, पाञ्चालदुहितुर्मनः ॥३५८ ।। प्रेयोभिर्विप्रयुक्तायाः, कथं यास्यति यामिनी । एपा ममेति सा चिन्ता-क्रान्ता याबदजायत ॥ ३५९ ॥ हिडम्बां पुरतस्ताव-दालोकत कृताञ्जलिम् | व्यानशे च प्रमोदेन, सुधासेकसनाभिना ।। ३६० ।। फुल्लकपोलफलका, बभाषे सा हिडम्बया | आयें ! वद्विरहाव प्रापुः, पाण्डवाः शोकताण्डवम् ॥ ३६१ ॥ यदान्विष्य बनान्तस्त्रां, ते कुत्रापि न लेमिरे । ततो घूलीविलिप्ताङ्गा, वसुधा परिभिरे ॥ ३६२ ॥ तेषां संप्रति बाप्पाम्बु-धाराधोरणिभिः पुरः । जातानि जानुदनानि, पललानि भ्रवस्तले ।। ३६३ ॥ श्रापदैरापदं रात्रौ. द्रौपदी नेष्यते ध्रुवम् । तां विना जीवितेनापि, पर्याप्तमधुनाऽमुना ॥ ३६४ ॥ इति निश्चित्य ते सन्ति, | प्राणत्यागविधित्सवः । जीविते निःस्पृहा जज्ञे, पृथापि तनयाऽनुगा ॥३६५।। (युग्मम् ) इत्थमत्याहितं तेषां, विलोक्याकुल
१ निःशूक निर्दयम् । २ गच्छ । ३ अनर्थम ।
१३२॥