________________
पवर्षिण्या, सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं, माऽपि प्रापदिमां दशाम् ॥ ३३६ ॥ प्रियापरिभवो राज्य-भ्रंश पथपरिश्रमः । नैते तथा व्यथन्ते मां, यथा मातुरियं दशा ।। ३३७ ॥ इति चिन्तातुरे राज्ञि, कायप्राप्य पयस्तदा । आजग्मतुर्निरानन्दौ, वृकोदर-किरीटिनौ ॥ ३३८ ॥ एतावपि महाबाहू, बिहलावुपरि स्थितौ । कटुङ्गनयनाम्भोभि-जननी पर्यपिश्चताम् ।। ३३९ ।। निराशमनसां तेषां, क्षिपतां दिक्षु चक्षुषी । आनीयोपानयत्रीरं, हिडम्बा बिसिनीदले ॥ ३४०॥ तेषां नयनपात्रेभ्यो, निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यात-मानन्दशिशिरैः परम् ॥ ३४१ ।। सस्यानामिव शुष्काणां, शोक-चिन्ता-तपक्लमात् । आपुरापस्तदा तेषां, ताः स्वात्यम्बुविडम्बनाम् ।। ३४२ ॥ अस्मत्कुटुम्बजीवातु-र्मातुरातुरघातिनी। निजेति तेषां चेतासु, हिडम्बा प्रतिविम्बिता ॥ ३४३ ।। मातुः संवाहयन् पादौ, स्थाने स्थाने युधिष्ठिरः । पन्थानमतिचक्राम, प्रत्यहं सह बान्धवैः ।। ३४४ ।।
एकदा कापि पश्यन्ती, कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्टा, कान्दिशीका पलायत ॥ ३४५॥ प्रचण्डः पुण्डरीको ऽपि, पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्या , क्रमः करात्मनामयम् ॥३४६।। तदानुपदिके तस्मिन् , सा भयोस्थितवेपयुः। नितम्बस्तनभारण, न शशाक पलायितुम् ॥ ३४७ ॥ दंप्याकरालमुत्काल-मालोक्य तमुपागतम् । माऽवतस्थे समालम्ब्य, धैर्यमूर्ध्वदमा पुरः ।। ३४८॥ अत्रापि धर्मपुत्रो मे, पातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां, सा विधायेदमम्यधात् ॥ ३४९ ॥ यदि मे प्राणनाथेन, सत्यरेखा न लहिता । तदा त्वमप्य रेखां, मा स्म शाईल! लक्ष्य ॥ ३५० ।। तयेत्युक्ते
१ व्याघ्रम् । २ व्याघ्रः।
1