________________
श्रीषाण्डवचरित्रम् ॥ सर्गः ७ ॥ !
॥१३१॥
261
तमांसि मांसलीभावं, लम्भयामासतुस्तदा ॥ ३२० ॥ दृष्ट्रा हिडम्बदोदण्डचण्डिमानं युधिष्ठिरः । अभीमं जगदद्येति, विदन्नर्जुनमभ्यधात् || ३२१ ॥ स्वर्यतां स्वर्यतां वत्स !, गच्छ क्षपय सक्षयम् । दोर्दण्डाभ्यां हिडम्वेन, पीड्यते तत्राग्रजः || ३२२ || जल्पत्येवं तपःसूनौ, भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन, पशुमारममारयन् ॥ ३२३ ॥ कुन्ती सुतस्य सानन्द-मुदतास्यदञ्चलम् । भ्रातुर्वपुरजातारिः, सरजस्कममार्जयत् ॥ ३२४ ॥ अर्जुनाद्याः कतीयांन - स्तस्य चेलाञ्चलानिलैः । रणखेदभवस्वेद-च्छेदमातेनिरेतराम् ॥ ३२५ ॥ क्षणादेकान्तमासाद्य, भीमं रोमाञ्चशालिनी । स्तनोपपीडमालिङ्ग-दानन्दाद्द्द्रुपदात्मजा || ३२६ || कंदर्पण हिडम्बाया--स्वदा बन्धुबियोगजः । शोकः शोकापनोदेन, गुरुणा विरलीकृतः ॥ २२७ ॥ शुश्रूषा - बहुमानाभ्यां निविडाभ्यां हिडम्बया । कुन्ती दुपदनन्दिन्यो- मनः परवशीकृतम् ॥३२८||
अथो निशीथिनीशेपे, पन्थानं ते प्रपेदिरे । प्रमाद्येत् कः सविद्यो हि, महीयसि विरोधिनि १ ।। २२९ ।। आश्वासयन् कनीयांस तेषां पृष्टुंगमोऽर्जुनः । निजाग्रजन्मनो दत्त-बाहुर्भीमः पुरोगमः ॥ ३३० ॥ पृष्ठे वहन्ती कुन्ती च कृष्णां च बिनयाञ्चिता । अम्बरेण हिडम्बा च तेषां मध्यस्थिताऽचलत् ॥ ३३१ ॥ युग्मम् ॥ अन्यदा तु महाटव्या - मत्युत्कटपिपासया ! भीष्म ग्रीष्म (ष्मा) तपश्रान्ता, कुन्ती मूर्च्छामुपाययौ ॥ ३३२ ॥ बीभत्सुरेकतो वैभा - दन्यतस्तु वृकोदरः । प्रत्याशमतिसंभ्रान्तौ, तोयहेतोरधावताम् ।। ३३३ ॥ मातरं मूच्छितां पश्य-न्मत्वेवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्या-मानिन्येऽम्बु युधिष्ठिरः ॥ ३३४ ॥ अचिन्तयच्च रे दैव !, सदैव प्रत्यनीकताम् । सर्वकणं किमस्मासु, निर्वाहयसि केवलम् १ || ३३५ || इशा पीयू१' बस |' प्रत्यन्तरे । २ ' कुन्ती ' प्रतिद्वय० ।
भीमेन
कृतो
हिडम्ब
घातः ॥
॥१३१॥