________________
।
रक्षसा प्रहतो हदि । धाव्यतां देवि ! पुत्रस्ते, हहा! पतति मूञ्छितः ।। ३०५॥ इत्युक्ते धर्मपुत्राया, भीमाभ्यर्णमुपाययुः। तं च मुलमालोक्य, जननी पर्यदेवत ॥ ३०६ ॥ अस्माकं मार्गपानां, वोढा वं प्रौदविक्रमः । दुष्टेन रक्षसा वत्स!, गमितः कामिमां दनाम् ? ॥३०७॥ निरालम्बकुटुम्बस्य, करालम्ब ! त्वया विना । दूरान् पानीयमानीय, तृषं नः कोऽपने| व्यति ? ॥ ३०८॥ कुसुमानि समानीय, वन्यान्येता तपस्विनीम् | नव्यधम्मिल्लबन्धेन, बधू कोऽलंकरिष्यति ॥ ३०९॥ तदहाय समुत्थाय, देहि प्रतिवचो मम । नयास्मान् पुरतोऽध्यान, पुरोऽभ्येति रिपोश्चमः ॥३१० ।। इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे, भीमं प्रगुणमर्जनः ॥ ३११॥
अथोत्थाय नियुद्धाय, स्पृहयालुवृकोदरः । प्रति प्रत्यर्थिनं धावन् , बभापे ज्येष्ठबन्धुना ॥३१२ ॥ स्थिरो भव तब भ्राता, भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स! तच्छत्री, दुष्टे कष्टायसे कथम् ॥ ३१३ ।। इत्युक्तः सोऽवदत्रि!, मम संप्रति दोबलम् | तव दृष्टया सुधावृष्टया, सिक्तं पल्लवितं पुनः ।। ३१४ ॥ तवानुजस्य पुरतः, कोऽयं राक्षसपासनः।। पुरी हि पूष्णाः पुष्णन्ति, न चयं चान्तवीचयः ॥ ३१५॥ वीक्षमाणस्य देवस, प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पश्चत्वं, पञ्चानन इत्र द्विपम् ।। ३१६ ।। अमानुषप्रचारेऽस्मिन् , कानने निरुपद्रवः । प्रसादेन तवेदानी-मस्तु पन्थाः सुसंचरः ।। ३१७ ॥ तदस्तु फाल्गुनः शत्रोः, करिष्ये फल्गु वलिगतम् । इति व्याहत्य संहत. स रिपुं प्रत्यधावत ॥ ३१८ ॥ अथाहर्व महाबाहो-चोहबाहवि कुर्वतोः । तयोर्जयश्रीदोलेच, करोति स्म गतागतम् ।। ३१९ ॥ पाण्डवश्व हिडम्बश्श, वल्गन्तौ क्षोणिरेणुमिः ।
१ अशोचन । २ सूर्यस्य ।