________________
श्री पाण्डवचरित्रम् ॥
सर्गः ७ ॥
॥१३०॥
259
अत्रान्तरे ददत्रास - मट्टहासेन भीषणः । आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् ।। २९० ।। वेपथु-स्वेद-रोमा- यमिमागम्य कामुकीम् । प्रसभं सोऽस्यधादेनां विकटान ॥ २९९ ॥ आः पापे ! प्रौढकंदर्पा-कुले 1 कुलकलविनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ २९२ ॥ त्वां विधायेन्धनं पूर्व, जाठरस्याशुशुक्षणेः । ततोऽमृनाहुतीभावं, लम्भयिष्यामि मानवान् || २९३ ॥ एवमाक्षिष्य कोपेन, रक्तचक्षुः स राक्षसः । दूराचपेटामुत्पाट्य दधावे सोदरां प्रति ॥ २९४ ॥ ततस्तमाह माहात्म्य-भूमिर्भीमः सौष्ठवम् । निरागसं निजां यामि मरे ! मोघं जिघांससि ।। २९५ ।। रक्षोवंशानुरूपं तत्, यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे माक्षा न स्त्रीहस्यामहं पुनः || २९६ ॥ उत्तिष्ठ निष्ठुरं कर्म, मुद किंचिदायुधम् | करे कुरु कुरुश्रेष्ठा, न हि शान्ति निरायुधम् ॥ २९७ ॥ इति क्रोधादविक्षिप्त - स्तामत्याक्षीत् स राक्षसः । एकं पादपद्यम्य, भीमं च प्रत्यघावत ॥ २९८ ॥ भीमोऽपि गतभीरेकं विधायाऽऽयुधमपिम् । जाग्रतु भ्रातरो मेति, तूष्णीको युद्धमादधे ॥ २९९ ॥ चण्डौजसा हिडम्बेन निर्बिलम्बं बलीयसा । ग्रहतः प्रसभं भीमः क्षणाद्वक्षेण वक्षमि ॥ ३०० ॥ पाण्डवोऽपि हिडम्बाय, ददौ पीडां प्रहारतः । यथा तत्प्रथमं निन्ये, सोऽपि मृच्छरसताम् || ३०१ ॥ मूर्च्छाविरामे स वेडा - मत्रीडः क्रीडयाऽकरोत् । यया युधिष्ठिरादीना-मभूद्भिद्रादरिद्रता ॥ ३०२ ॥
कुन्ती पुरस्तादुद्वीक्ष्य, हिडम्यामिदमभ्यधात् । का त्वं पुत्रि ! कथं चात्र १, तथ्यं मे कथ्यतामदः ॥ ३०३ ॥ साऽप्यस्यै निजमावेध, सर्व वृत्तान्तमादितः । आख्याति स्म तनूजस्ते, युध्यते रक्षमा सह ॥ ३०४ ॥ उच्छलसिंहनादेन, १ यमराजम् । २ अमेः ।
मीमहितम्योर्युद्धम् ॥
॥१३०॥