________________
कुलदेवताः ॥ २७५ ।। तस्मान्मा म चिलम्बस्व, पुरा नन्वेति राक्षसः । त्रपां विहाय मां रात्रि-चरी सहचरीं कुरु ॥२७६ ॥ मयि ते सहचारिण्या-मसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति, प्रबला वनवैरिणः ।। २७७ ।।
अथाभाषिष्ट भीमस्तां, मदे ! प्रेमार्द्रमभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या, त्वाइमारी स्वयंवरा ५ २७८ ॥ सुगात्रि !! परमत्रार्थे, कारणं मे निशानात् । ममैले साक्षणाः सन्ति बन्दाशे एपि शयालवः ।। २७९ ॥ ऋद्धा गुगैरियं वृद्धा, या तु स्वपिति निर्मरम् । जानीहि जननी मेना-ममा मेरलोचन ! ।।२८० ॥ एपा शिरीपमृद्वङ्गी, मुखं मोपुप्यते तु या। पञ्चानामपि साऽस्माकं, प्राणेभ्योऽपि प्रिया प्रिया ॥२८१।। एकयाऽपि सधर्मिण्या, साधारण्याऽनया वयम् । कृतार्थाः पुरुषाधेषु, निखिलेष्वपि निर्मिताः ।। २८२ ।। अनुमन्यामहे नान्यां, प्रेयसी श्रेयसीमपि । प्राप्य कल्पलनां स्वल्पाः, कोऽनुरुध्येत वीरुधः ।। २८३ ।। उपन्यस्तस्वया यस्तु, लोभः माहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां, दोर्दण्डाना त्रपाकरः ॥२८४ ॥ बाह्यसाहाय्यसापेक्षं, क्षणं वो मा स्म भून्मनः । इत्यस्मासु स्वदोर्वीय-निष्ठं ज्येष्ठस्य शासनम् ॥ २८५ ।। इति सा प्रतिषिद्धाऽपि, सदेन्यं पुनरभ्यधान् । मामात्मशरणां स्वामिन् ! यद्यपीथमपाकृथाः ॥ २८६ ।। यावञ्जीचं त्वमेवासि, जीवितेशस्तथापि मे । तद्यदा रोचते नाथ!, कुरु मामात्मसात्तदा ॥ २८७ ।। किं स्वेतामधुना तात्र-द्विद्यामादत्स्त्र चाक्षुषीम् । यया ते
भवितोद्योत-स्तामसीष्वपि रात्रिषु ॥ २८८ ॥ सैवमाख्याय भीमाय, संभदात्तामदानदा । तस्मै पठितमात्रैव, सा NI प्रकाशमसूत्रयत् ।। २८९ ॥
१ अङ्गीकुर्महे । २ दर्शितः। ३ हर्षात् ।