________________
भीष्मेण |कृतमम्बिकादिकन्यायहरणम्।
श्रीपाण्डव- र्याथें, स हर्तुमकरोन्मनः ॥२७८॥ प्रत्येकमात्मनः कन्या-लाभं संभाव्य भूपतीन् । नास्तान् विवृण्वनो भावान् , हमति स्म म | चरित्रम् ॥ मानसे ॥ २७९ ।। अथ तासां पुरोधाच्या, कीर्त्यमानेषु राजमु । रथानाय स्वोत्फालः, म रङ्गाङ्गणमाविशत् ।। २८० ।।। सर्गः१॥ सहयंवरं रात-चदनतपणाकुलम् । बाद रिलोडयामास, पयोधिमिव लीलया ॥२८१॥ आच्छिद्य कन्यारत्नानि, सर्वेपा-
N| मेव पश्यताम् । रथमारोपयामास, भीष्मो मीष्मपराक्रमः ॥ २८२ ।। स्यन्दने भयनिस्पन्दा, वेपमानवपुलताः । सुताः म ॥१०॥
काशिराजस्य, स्निग्धमुग्धमभाषत ॥ २८३ ।। वत्साः ! किमपि मा भैप्ट, नानिष्टं वः करिष्यते । भीष्मोऽस्मि शान्तनोः सूनु-र्मवतीनां प्रियंकरः ।। २८४ ॥ राजा विचित्रवीयोऽस्ति, जैत्रदोर्वीयदुर्जयः। एते सर्वेऽपि यस्याये, गुणबहुतृणं नृपाः
॥ २८५ ॥ अनुभूय प्रियाभृय, तस्य स्मरसमाकृतेः । हस्तिनापुरसाम्राज्य, चिरं निर्विशतामृतम् ।। २८६ ॥ विनयावर्जितोVI ऽत्यन्तं, तस्याहं बन्धुरग्रजः । तदर्थ रथमारुह्य, युष्मानानेतुमागतः ।। २८७ ॥ तस्मिस्ता निस्तरङ्गेन्ण, रागेणाकान्तचेतसः । | इदं गाङ्गेयवचनं, तथेति प्रतिपेदिरे ॥ २८८ ॥ प्रतिपत्तिचलन्मौलि-नृत्यत्ताटङ्करश्मिभिः । ताः स्फीतप्रीतयश्चक्रु-स्तस्य
नीराजनामिव ॥ २८९ ॥ गज्ञां मनोरथैः सार्ध, रथं भीष्मो न्यवर्तयत् । कुर्वन् कुण्डलितं चाप-मुचैःस्वरमुवाच च ।।२९०। । सर्वे भृणुत भो! भूपाः, प्रौढदोःस्थामशालिनः । युष्माकं पश्यतां सैष, भीष्मः कन्या हरत्यमः ॥२९१॥ ततो वः कोऽपि जागर्ति, यदि दोर्दण्डचण्डिमा । तदा कोऽप्यायुधं धत्ता-मयमचंदमोऽस्म्यहम् ।। २९२ ।। तदा क्षुब्धार्णवनिभो, रङ्गशोभभवो ध्वनिः । स कश्चिदासीन्मबंऽसौ, विभिदे येन रोदसी ॥ २९३ ।। रभसोत्थास्नुभूपानां, कृष्टाभिः सिचयाश्चलैः।
१ 'नित्यरनेण' इति प्र० द्वय० । २ 'पूर्लोकाः' इति प्रत्य० ।
॥१०॥