________________
अथ राज्यं कनिष्ठाप, गरिष्ठो जाहूचीसुतः । ददौ विचित्रवीर्याय, बन्धवे बन्धुवत्सलः ॥ २६३ ।। तं भीष्मचापमाहात्म्या-दपचक्रे न कश्चन । " यूथनाथान्तिके कन, कलम: परिभ्यते ?" || २६४ ॥ चतसृष्वपि विद्यासु, गतायद्यासु कौशलम् । चक्रे कनीयसो भातु-भीष्मः संज्ये च धन्दनि ! २६५॥ अनहयुतयाऽत्यन्तं, भूना वैनयिकेन च । बन्ध बान्धवस्नेह, भीष्मस्तस्मिन् विशेषतः ॥ २६६ ॥ दाराणामनुरूपाणां, भ्रातुरुद्वाहहेतवे । गवेषणाय स प्रैषी-निजान प्रति दिशं नरान् ।। २६७।। मार्गदत्तदृशे तस्मै, कदाचिद्धूलिधूसरः । तेषामेकतमोऽभ्येत्य, कथयामासिवानिति ॥ २६८ ॥
देव ! श्रीकाशिराजोऽस्ति, प्रकाशः काश्यपीतले । यस्य मन्दाकिनी नित्य-मना गृहदीपिका ।। २६९ । अम्बिकाऽम्यालिकाऽम्बाच, तिस्रस्तस्यासते सुनाः । विभान्ति पुरतो यासा, तृणवत्रिदिवस्त्रियः ।।२७०॥ तासां तानेन विश्रब्ध, प्रारब्धोऽस्ति स्वयंवरः । रचयांचक्रिरे मञ्चा-स्तत्र चैचित्र्यशालिनः ॥२७१राजानो राजपुत्राश्च, शतशः सन्त्युपस्थिताः । आपतन्त्यधुना केचि-दापतिष्यन्ति केचन ॥ २७२ ॥ ततः कलाकलापेन, रूपेण वयसाऽपि च । योग्या विचित्रवीर्यस्य, सुतास्ताः काशिभूपतेः ।। २७३ ॥ गाङ्गयस्तद्वचः श्रुत्वा, तत्वदृष्टिळतयत् । किमहो काशिराजेन, नानुजो मे निमन्त्रितः ॥२७४ा न गन्तव्यमनाहूते-महीपालैः स्वयंवरे । अतो गत्वाऽहमेबैकः करिष्ये सर्वमीप्सितम् ।। २७५ ॥ एवं विमृश्य गाङ्गेयो, रथेन प्रस्थितो द्रुतम् । जवनवाजिभिर्वेगा-दगमच्च स्वयंवरे ।। २७६ ।। तत्र सिंहासनासीना-नुक्रर्मश्चेषु भूपतीन् । सोऽपश्यद्रासुराकल्यान , विमानवमरानिः ।। २७७ ॥ उरोलोलन्मनोहारि-हारास्तिस्रोऽपि बालिकाः । दृष्ट्वा विचित्रवी
१ ज्यासहिते धनुषि च । २ अगर्विष्णतया । ३ 'पृथिवीतले ' इति प्र.। ४ 'प्रास्थित' इति प्रा य० । ५ दीप्रमाणान ।