________________
श्री पाण्डवचरित्रम् ॥ सर्गः १ ॥
॥९॥
ततः सत्यवतीं पत्नी, नवप्रेमांस (मांश) मीयुषः । भूपालस्य पृमर्थेषु कामः कामं प्रियोऽभवत् ॥२४८|| “ति-पुंत्र फला दारा, " इति नीतिवचस्तया । सत्यापयन्त्या सुपुत्रं पुत्रभित्राङ्गदाभिधः ॥ २४९ ॥ तेजम्बितिलकः पाद-क्रमन् भूभृतां शिरः । योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥ २५० ॥ विचित्रवीर्य इत्यासीत्, सत्यवत्याः सुतरः । भूत्र भूभृतो यस्माद्वंशः प्रांशुः प्रसत्वरः ।। २५१ ।। तदा तयोः समग्रेषु हितकर्मसु जाग्रतः । प्रादुर्बभूव सौभ्रात्रं, गङ्गासनोरकृत्रिमम् ।। २५२ ।। सोऽग्रजन्माऽनुजन्मानौ, कृत्वाऽङ्कतलतल्पगः। उल्लापैः श्रपीयुषः, खेलयामास भूमिः ।। २५३ ।। क्षत्रगोत्रोचितैस्तैस्तै- रन्यबालविलक्षणैः । एतयोवल्यचापल्यैः, स तुतोष क्षणे क्षणे ॥ २५४ ॥
अथाल्पीयो विदिन्याय - रविमस्तत्त्वदृश्वनाम् | शुभध्यानेन तत्याज, शान्तनुर्मानुषीं तनुम् || २५५ ॥ विधिव भीष्मः पितुः स्वस्यौर्ध्वदेहिकम् । “ इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः " ॥ २५६ ॥
aise चित्राङ्गदं राज्ये, शिशुमेव न्यवीविशत् । " न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् " ॥ २५७ ॥ से ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः । उदयन्नपि दुष्प्रेक्ष्यो, यथाऽभूद्भानुमानिव ।। २५८।। अभूद कश्चित् स भूपानां, हृदि चित्राङ्गदो गदः । नागदो नागदङ्कारः कोऽप्यासीद्यचिकित्सने ॥ २५९ ॥ तेन नैष्यत भीष्मोऽपि संविभागी जयेऽपरः । अतः स युद्धमेकाकी, चक्रे सार्धं विरोधिभिः ॥ २६०॥ स निर्मलकलासन, च्छद्मनाऽस्येत्य ॲग्रसे। नीलाङ्गदेन संग्रामे, शीतांशुरिव राहुणा || २६१ ।। “ शिरःशेषोऽपि चेद्वैरी, तदा बाधेत राहुन् " । उपानीयत भीष्मेण, सोऽप्यतो नामशेषताम् || २६२ ||
१ भृशम् । २ रतिपुत्रौ फलं यासां ताः । ३" स हि ग्रीष्मेण भी० " इति प्रत्य०।४ विनाशितः
मत्यत्रतीशान्तनोविवाहः, पुत्रद्वयोत्पत्तिः, शान्तनुम
रणम् चित्राङ्गद
स्य राज्य
प्राप्तिस्ट
मरणं च ॥
॥ ९ ॥