________________
सुपानयम् । नामधेयं व्यधां चास्याः, सत्यं सत्यवतीत्यहम् ।। २३३ ।। मम पस्न्या च यत्नेन, वात्सल्यजलकुल्यया । केलिकाननवल्लीव-दियं वृद्धिमनीयत ।। २३४ ॥ त्रिलोकीतिलकीभूता, प्रभृतगुणमन्दिरम् । सेयं सत्यवती पुत्री, कृत्रिमा ! मम नौरसी ॥ २३५ ।। पिता भवत्यपत्याना-मीदृशां मादृशः कुतः। आस्पदं कल्यवल्ल्या हि, सुमेरुन पुनर्मरुः ॥२३६।। तदस्या दिव्यवाचैव, नितिः शान्तनुः पतिः । चीक्षितुं पितृभक्ति तु, त्वदीयामित्यजल्पिषम् ।। २३७ ।। तदिदानीमुपादस्त्र, मत्सुतां तातहेतवे । अतः परं त्वमेवास्या, विश्रामः सुखदुःखयोः ॥ २३८ ॥ इत्यालप्य कुमारस्य, प्रसरत्पुलकाङ्करः। सुतां सत्यवतीं प्रीता-मर्पयामास नौपतिः। २३९ ॥ अलमम्ब ! विलम्बेन, रथोऽयमधिरुपताम् । इति तां रथमारोप्य, पुरं शान्तनबो ययौ ।। २४० ॥
नभश्चरेम्यो निःशेष, वृत्तान्तं ज्ञातपूर्विणः । प्रसन्मस्य पितुन स्वा, स चक्रे तामुपायनम् ॥ २४१॥ पितापि भीष्ममासिष्य, निर्भरस्नेहपूर्वकम् । आत्मैकवेद्यमानन्द-ममन्दभरमन्वभूत् ॥ २४२॥ दृशा पीयूषवर्षिण्या, श्रीविश्राममहीरुहम् । सिञ्चन्नुवाच गाङ्गेय-मुत्सङ्गस्थापितं पिता ॥२४३॥ शृण्वन्ति पितुरादेशं, ये तेऽपि चिरलाः सुताः । आदिष्टं ये तु कुर्वन्ति, सन्ति ते यदि पञ्चपाः ॥ २४४ ॥ आत्मना यस्तु विज्ञाय, करोति पितुरीप्सितम् । एक एव स मे सूनु-जाह्नवीशुक्तिमौक्तिकम् ॥ २४५ ।। ततः परसहस्राणि, वत्सराण्यापुरस्तु ते । एतस्य कुरुवंशस्य, पताकाश्रियमाप्नुहि ॥ २४६ ॥ प्रमोदादेवमाशीमि-रभिनन्ध निजात्मजम् । नृपः सत्यवती सौम्ये, महर्ने परिणीतवान् ॥ २४७ ।।
१ न स्वशरीरजा इत्यर्थः ।