SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 25 स्वस्तरानध्यशेरत ।। २४५ ॥ आपृच्छय बन्धून वात्सल्या-दुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं, मध्यमः पाण्डुनन्दनः ।। २४६ ॥ गन्युतिमात्रमध्वान-मांतक्रम्य स विक्रमी । सारसस्वरनिर्णीत-माससाद पुरः सरः ॥ २४७॥ उपेयित्रानुपादाय, पयःपुटकिनीपुटे। अक्षामनिद्रमद्राक्षीद, स्वकुटुम्ब वृकोदरः ॥ २४८ ॥ तत्याभूतमालोक्य, शोकेन विवशीकृतः। विललाप विमुच्यापः, स बाष्पाविललोचनः ।। २४९ ॥ पल्यई यः सतूलीक-मध्युवास नृवासवः । विग्विधि मोऽधुनाऽध्यास्ते, स्थपुटं मस्तरं भुवि ।।२५०॥ पुरोपतल्पं यस्यासी-निःसीमो गीतनिस्वनः । वर्तते सांप्रत तस्य, भैरवः फैरवो वः ।।२५१॥ कस्तूरीसंस्तुतैः पूर्व, यस्याभूचन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं, पांशुभिर्गिसंभवैः ॥ २५२ ॥ दृष्टौ कष्टेन यस्याङ्की, सेवायातैनृपैरपि । नरव्याघस्य जिघन्ति, शृगालास्तस्य सांप्रतम् ।। २५३ ।। पूर्व व्योनि विमानेन, यो वभ्राम सविभ्रमम् । रक्कस्वापं स्वपित्येवं, कान्तारे सोऽयमर्जुनः ॥ २५४ ।। द्विषधशस्तुपारांशु-राहबो यस्य वाहनः। सहते मोदरादेशात् , केशं सोऽपि कपिध्वजः ॥२५५ ।। एतौ सदापि नः क्रोड-क्रीडादुर्ललितौ पुरा । हा! शयाते कनीयांसौ. दरिद्धपथिकाविध ॥ २५६ ॥ पाण्डवानामियं माता, पत्नी पाण्डुमहीपतेः । क्रमचंक्रमणक्लान्ता, शेते कुन्ती हहा! भुवि ॥ २५७ ।। कथं सहिष्यत क्लेशं, नासौ यस्यास्तनूरुहाः । वयं प्रोदामशौण्डीर्य-प्रपश्चाः पञ्च पाण्डवाः ॥ २५८ ॥ इयं निद्रायते भूमौ, कष्टं द्रपदनन्दिनी । | एतामवस्थामेतस्याः, पश्यन् भीमोऽपि जीवति ॥ २५९ ।। अरण्यपान्थैरसाभिः, पश्यत प्रेयसी निजा । असौ कान्तारसं १ वन्धुममीपमागतः । २ विषमम । १ वक्रोक्तिरियं प्रतिभाति ।
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy