________________
बनावनौ ॥ २१३ ॥ पश्यना पाण्डुपुत्राणां, कलवस्य कुचारैः । अम्भोजभेदं भिद्यते, हहा ! चरणपल्लवौ ।। २१४ ॥ न जानाति प्रिया दुःख-मेकस्मिबपि मर्तरि । पञ्चस्वपि प्रियेवेका, क्लिश्यते दुपदात्मजा ॥२१५॥ इत्यस्मिश्चिन्तयत्येव(व), मार्गे दुर्गे तमोभरैः । श्रान्ता कुन्ती च कृष्णा च, निःसह मुवि पेततुः ॥२१६॥ राज्यभ्रंशं भयं शत्रो, रात्री पद्धयां पलायनम् । दिग्दिर्षि यो व्यवादे, पागजनानां विडम्बनाए ॥ २१७ ॥ उष्णालुभिरपच्छः , शीतालुमिरनंशुकैः । बुभुक्षुभिरपाथेयः, पन्थानो दुरतिक्रमाः ॥ २१८॥ शिरीषसुकुमाराङ्गयौ, नियतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे, कथमेते मविष्यतः? ॥२१९॥ इति खेदपरं दृष्ट्वा, नृपमये वृकोदरः । आकुलो मा स्म भर्देव!, पदातौ प्रगुणे मयि ।।२२०॥(चतुर्भिः कलापकम् )
ततोऽम्बा दक्षिणे स्कन्धे, वामे प्रियतमा पुनः । अध्यारोप्य ययौ भीमो, भजन मार्गमहीरुहः ॥ २२१ ॥ उभावपि कनीयांसौ, पश्चाइरान्तरस्थितौ । मार्गखेदोच्छलच्कासी, मन्दं मन्दमुपेयतुः ।। २२२ ॥ व्यवस्थाप्य विकस्थाने, तावुभावभितस्तदा । निन्ये भीमो भुजालम्बा-दूर्मपुत्रा-र्जुनावपि ॥२२३।। निशीथमारुतः शीतः, कुमुदामोदमेदुरः । आचचाम श्रमं तस्य, दयालुरिव दूरतः ।। २२४॥ न निद्रोपद्रवस्तस्य, वैधुर्य नान्धकारजम् । ललो पथपाथोधि, पूर्ववत् पवनात्मजः ।। २२५ ॥ विलोक्य क्लान्तिमायाती, धर्मपुत्रा-र्जुनावपि । महेभ इत्र भीमस्तान , सर्वान् पृष्ठेऽध्चरोपयत् ॥ २२६ ॥
महाध्वनि निमग्राना-मगाचे जलपाविव । यानपानायितं तेन, स्वबन्धूनां महात्मनाम् ॥ २२७ ॥ आससाद सदारम्भ1. संभृतश्रेयसो भृत्रम् । भीमस्याध्वतिरोधान-पापेनेव क्षपा क्षयम् ॥२२८।। कुन्देन्दुसितकौन्तेय-कीर्तिविलासितैरिव । तमो
राज्यभ्रंशो' इति प्रत्यन्तरपाठः साधुः । २ पृष्ठे ।