________________
त्यापासपयुटकिनीखण्डडवा इमे । एतान सुवाधन ! धनार्जनमदविता
पाण्डवाना
सुरङ्गाया निर्गमनम्।।
श्रीपाण्डव अचिरेणेव पूनागा, नागलोकोपमादिलात् । विनिर्याय प्रयान्ति स्म, पथि ते रथवर्जिताः ॥ १९८॥ तेषां प्रदीपनोद्योतः पास्त्रम् N पृष्ठतस्तीबवेगतः । दिष्ट्या पुरोचनो दग्ध, इत्याख्यातुमिवाययौ ।। १९९ ॥ अस्तं नीखा तमःस्तोम, तेनालोकेन दर्शितः । मर्मः॥ हस्तदीपोपमेनैषा-मध्वा सौध इव ध्रुवम् ॥२०० ॥ संपत्पुटकिनीखण्ड-मार्तण्डाः पाण्डवा इमे । त्वमेनान् किं मुधाऽधाक्षी,
रे हताश हुताशन! ॥२०१॥ आपबार्तिच्छिदाछेक-दोर्दण्डाः पाण्डवा इमे । एतान् हन्त दहवेचं, पुरोचन ! किमाचरः! ॥१२७॥
॥ २०२ ॥ दीनानाथसमुद्धार-पण्डिताः पाण्डवा इमे । एतांस्ते निभतः कीदृक, सुयोधन ! धनार्जनम् ? ॥ २०३ ॥ त्रैलोक्यत्राणशौण्डीर-कोदण्डाः पाण्डवा इमे । अमनेवं तिरस्कुर्वन् , बंधेयोऽसि विधे! ध्रुवम् ॥२०४॥ परिदेवितवाक्यानि, लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः, पुरतस्ते प्रतस्थिरे ॥२०५।। ( पञ्चभिः कुलकम् ) भाग्यराशिरिवामीपा-मालोकः स तिरोदधे । बन्धुर्दुर्योधनस्येव, प्रादुरास तमश्चयः ॥ २०६ ।। युगपद्धान्तमध्वा च, द्वयमेतदुपागतम् । तनोति स्म श्रमाद्वानं, तत्सवित्री-कलत्रयोः ॥२०७॥ आलोकशब्दमाधत्तः, पुरो भीम-किरीटिनोराज्ञः प्रथमपान्थस्य, तथाऽप्यस्खलतां क्रमौ ॥ २०८ । नकुलः सहदेवश्व, पथि श्रान्तावुभावपि । ज्यायमां मा स्म खेदोऽभू-दिति तूष्णीमगच्छताम् ॥ २०९॥
पादचारं सेंदाचार-भूमीरुहभुवोरपि । मातुः पल्याश्च निघ्यायन् , दध्या विश्वंभराधिपः ॥ २१० ॥ यस्यां कथंचिन्नापैति, सुतानामधमर्णता । मयाऽद्य निक्रयो मातु-स्तस्याः क्लेशोऽयमर्यते ॥२११॥ कष्टं दृष्टं यया नैव, पितुर्भर्तुश्च वेश्मनि । मातेयममितं क्लेशं, मयैवमनुभाव्यते ।। २१२ ॥ अहो ! पाणिगृहीतीयं, पाण्डवानां महौजसाम् । दरिद्रमृहिणीचारं, चरत्वेव
१ पुटकिनी-पालता पद्मसमूहो वा । २ मूर्खः । ३ विलापवचनानि । ५ सदाचारवृक्षाणां स्थानयोः ।
C॥१२७॥