________________
2.5
+NEPA
S
Caper
कुन्स्याश्च याज्ञसेन्याश्च, यमयोश्च कनीयसोः । अभ्यासार्थ पृथासूनुः, सुरङ्गान्तरदर्शयत् ।। १८२॥ पश्चापि चन्द्रशालायां, निषण्णास्ते नमोगतेः । नक्षत्रैः क्षत्रमार्तण्डा, निशि निश्चिक्यिरे पयः ।। १८३॥ कुन्ती शुभाय पुत्राणा-माहारैः सुमनोहरैः। दीनानाथजन सर्व, प्रीणयामास सर्वतः ॥ १८४ ॥ अर्चामभ्यर्चयामास, श्रीशान्तः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं, ध्वस्तपापं जजाप च ॥१८५॥ विश्वस्त बन्धुभिः माध, दृष्ट्वा हृष्ट युधिष्ठिरम्। पूर्गामेव निजां मेने, रुचिं पापः पुरोचमः ॥१८६॥
अथ कृष्णचतुर्दश्यां, कस्यांचित् पश्चभिः सुतैः । स्नुषया चैकया मार्क, वृद्धा काचिदुपाययौ ।। १८७ ॥ पञ्चपुषपवित्रा च, वृद्धामालोक्य तां पृथा । आत्मतुल्यतया मेने, भगिनीमिव सोदराम् ॥१८८० मधुरस्निग्धमाहारं, तां वृद्धामृजुमानसा । सात्मजां भोजयामास, कुन्ती देवी सगौरवम् ॥ १८९ ।। आमृषद्भिर्महस्तुन्दं, सुतैः सौहित्यशालिभिः । सार्घ वृद्धाऽम्बना खिन्ना, तत्रैवाशेत निःसहा ।। १९० ।। दुनिमित्तैस्तमी भीम-स्ता संभाव्य भयंकरीम् । सकुटुम्बं सुरक्षायां, युधिष्ठिरमतिष्ठिपत् ।। १९१ ।। निर्विलम्ब कुटुम्बन, समं जम्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ, द्वारि संचारिलोचनः ।। १९२ ।। द्वारतो दीपयनुच्चै-रचिंष्मन्तं पुरोचनः । उन्निद्रमनसा तेन, दुष्टो दृष्टः स्वचक्षुपा ॥ १९३ ।। धूमधूंमध्वजो यात्र-बालिङ्गति नमोऽङ्गणम् । तस्य क्रोधानलस्ताव-ज्वालाजालममुञ्चत ॥ १९४ ॥ ततः पुरोचनं धृत्वा, तं केशेषु विसंस्थुलम् । आचकर्ष हठेनासौ, हरिणं हरिणारिवत् ।। १९५ ॥ तं नीत्वा मुष्टिना मृत्यु, स दम्भोलिसनाभिना । प्रदीप्य जातुषागारं, चकार द्रुतमनिसात् ।। १९६ ॥ सोत्कण्ठमानसो वात-ननयोऽपि सुरङ्गया । एत्य संघट्टितः पश्चा-ज्झटिन्येवाग्रजन्मना ।। १९७ ।।
१ तृनिशानिमिः । २ सन्त्रिम् । ३ बज्रसवेन । जन्मनः ' प्रतिद्वयः ।
.