________________
श्रीपाण्डवः चरित्रम् ॥ सर्गः॥
॥१२६॥
किनः पान्थाः, स्थाने स्थान दुहाः।। ६६६ । नव विधावलेनाति, भन्तुं संप्रति युज्यते । मत्यस्य निकषो घेवं, न विदुरसंदेमे प्रादुर्भवेदृशम् ॥ १६७ ।। श्रूयतां तु ममाकूत-मत्रधाय मनोधुना ! अतिगुप्तेङ्गिताकारै-रास्यतेऽत्रैव वेश्मनि ॥ १६८ ॥ शन पारयदा स्वामिनिदेशार्थ-मुत्सहेत पुरोचनः । तदाऽस्माभिरितो गेहा-निर्गन्तव्यं सुरङ्गया ॥ १६९ ।। ततश्च दग्धान् विज्ञाय, वैःसुरक्षा कोऽप्यन्विष्यति नैव नः । तदेवमेकमस्माकं, श्रेयः स्यादपरं त्विदम् ॥ १७० ॥ पाण्डवेयाः प्रचण्डेन, ज्वालाजटिलम- INकारिता ॥ [र्तिना ! सुखं मम प्रपञ्चेन, दन्दह्यन्ते स्म बहिना ॥ १७१ ॥ मुदं मेदस्विनीमेतां, हृदि धत्ते सुयोधनः । ममयामः मुखेने. त्थं, वयं द्वादशवत्सरीम् ॥ १७२ ।। (युग्मम् ) निगमोऽस्तु मुरङ्गायाः, प्राच्य द्वैतवनाचना । संप्रत्यालोक्यतां कोऽपि, सुरङ्गाखनकः पुनः ॥ १७३ ।। इत्युक्ते धर्मपुत्रेण, भूयोऽवादीत्प्रियंवदः । प्रहितो विदुरेणास्ति, खनकः शुनकाभिधः ॥ १७४ ॥ अयं तव पितृन्यस्य, बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमि-रात्मेव वपुरन्तरे ॥ १७५ ।। इत्याख्याय समाहूय, नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं, भूतलन्यस्तमस्तकः ॥ १७६ ॥ भद्र ! भद्रा सुरङ्गां नः, स्वैरचारमनोहराम् । कुरुष्वेति पतिर्भूमेः, सप्रसादं समादिशत् ॥ १७७ ॥ पुरवायगृहस्यान्तः, स्थित्वा सोऽपि प्रतिक्षपम् । दिवाऽन्यद् कर्म कुर्वाण:, खनति स्म शनैः शनैः ॥ १७८ ।। अधस्ताद्रीमतल्पस्य, बिलद्वारं विधाय सः । निजव्यापारपारीण, स्वं नृपाय न्यवेदयत् ।। १७९ ॥ अविश्वासाः सविश्वास, निमुदः समुदं तदा । लोकभ्यो दर्शयामासु-रात्मानं तेऽपि पाण्डवाः ॥ १८० ।। प्रतिप्रत्यूषमुत्थाय, जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान् , विदामास वृकोदरः ॥ १८१ ॥ १ . क्षिपम ' प्रतित्रयपाठोऽपि साधुः, क्षिपाशब्दोऽपि रात्रिपर्यायोऽस्ति कोषे ।
१२६॥