________________
मुकुल-स्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेद, विज्ञापयात सादरम् ॥११८ ।। आय! धुर्यस्त्वमार्याणा-मनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां, निर्गुणानामहं पुनः ॥ ११९ ॥ उत्तंसः सजनानां त्वं, दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां, दुर्बुद्धीनामहं पुनः ॥१२० ॥ टोग्तरगतं नहानां कृतनानामहं पुनः । त्वमुत्तमानां माणिक्य-मधमानामहं पुनः ।।१२१|| आदिमस्त्वं महेच्छाना-मल्पेच्छानामहं पुनः । स्वमायः कृतायद्यानां, निविद्यानामहं पुनः ॥ १२२ ॥ मया विवेक शून्येन, यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात् , कुरुवंशे तु का कथा ? ॥१२३।। तानीदानी व्यलीकानि, त्वं मम क्षन्तुमर्हसि । स्वलितं यत् कनिष्ठस्य, बन्धोयेष्ठस्य तन्मुदे ॥ १२४ ॥ भवन्त्युच्चावचा वाचो, याः काधन दुरोदरे । तासामनुपदी का स्या-द्विशेषेण भवादशः ॥ १२५॥ तत् प्रसीद समभ्येहि, गृहाननुगृहाण माम् । संचरस्त्र पुनः स्वैर, हस्तिना हस्तिनापुरे ॥ १२६ ॥ यजन्ने त्वय्यवज्ञाभिः, पुरा कितवकैतवे । स्वक्रमाम्भोजरजसा, रजस्तन्मे प्रमृज्यनाम् ॥ १२७ ॥ सदाऽस्तु मालतीपुष्प-स्तबकप्रातिवेश्मिकी । अतः परं तवाज्ञा मे, मौलिपल्याङ्कखेलिनी ।। १२८ ।। अथ चेदार्य । तेऽत्यन्तं, सत्यव्रतविपर्ययात् । राज्योपभोगैर्लअत, चेतः केतकनिर्मलम् ॥ १२९ ॥ सदाऽमुनाऽध्वना ये हि, साधवः संचरिष्णवः। स्यात्तेषां व्रतनिर्वाहे, जाडयमुडामरं परम् ॥ १३० ।। ततोऽनुग्रहमाधाय, संविधाय स्थिरं मनः । स्वस्थेन स्थेपमार्येण, नगरे बारणावते ॥ १३१ ।। आर्यस्य सानुजस्यापि, स्वैरं तत्रापि तिष्ठतः । आत्मचेतोऽनुरूपाणा-अपनेतास्मि संपदाम् ॥ १३२ ॥ इति विज्ञापितं तुभ्य-मधुना नेन बन्धुना । अन्वहं च नियुक्तोह-मादेशाग्रसरस्तव ॥ १३३ । इत्याख्याय स्थिते तस्मि- | स्तूष्णीं कृष्णादयो मुदा । अर्थः ममर्थ एवाय-मेतस्येत्यनुमेनिरे ।। १३४ ।।