________________
4
.
कथमप्यगुः ।। ८८ ॥ अथ कार्यचिदाकार्य, लोकमस्तोकमेकतः। नगराय निवर्तध्व-मिति भृपतिरादिशत् ॥८९॥ लोकोऽप्यजल्पदाकल्प-मस्माकमनुजीविनाम् । पादा नन्दन्ति यत्रैते, तत्रैव नगरं प्रभो !॥९० ! आत्मानुपायिनी छायां, व्यावर्तयसि
चेदिमाम् । तदा वयं महीनाथ :, व्याउर्नेमहि नान्यथा ॥ ९१ ॥ ा तं तथा वद्धनिर्बन्ध, जनं जानन् युधिष्ठिरः । अनुमत्य सहायान्त-मवादीद्विदुरं ततः॥९२ ॥ वितनोपि त्वमेवार्य !, प्रीतिमस्मासु पैकीम् । देवस्याजनि पाण्डोस्तु, केवलं जन्मकता ॥९३ ॥ एतावस्मद्वियोगार्ति-मातरौ पितरौ पुरः। सहैव नेतु मोक्तुं वा, ब्रूहि किं मम सांप्रतम् । ॥ ९४ ॥ जगाद विदुरो वत्स !, मत्सरी ते मुयोधनः । अतः सर्वकुटुम्बेन, समं गन्तुं न युज्यते ॥ ९५॥ तदत्रैव तटस्थेन, स्थेयं देवेन पाण्डुना। देवी स्थास्यति कुन्ती तु, नैच वो विरहासहा ।। ९६ ।। एनमादृत्य तन्मन्त्रं, नत्वा पाण्टुं युधिष्ठिरः। सवाष्पं स्थापयामास, विनीतो विदुरान्तिके ।। ९७ ॥ अवियोगाद्वियोगाच्च, तदानीं पुत्रमभिः । अवाप युगपत् कोटि, कुन्ती हर्षविषादयोः ॥ ९८ ।। तवासौ पर्यवस्थाता, न स्थाता स्वन्यवस्थया । तद्भवेः सावधानस्त्व-मध्वनीनो बनाध्वनि ।। ९९ ॥ इति धर्मसुतं स्नेहा-दनुशास्य सगद्गदम् । रुदन्ती बिदुरः कुन्ती-मनमन्ननमस्तकः ॥ १० ॥ (युग्मम् )
अथ साश्रुमुखः पाण्ड-भाषिष्ट युधिष्ठिरम् | कान्तारेषु कथं वत्स, सकुटुम्बो भ्रमिष्यसि ॥१०१॥ कथं च त्वद्वि| युक्तोऽहं, भविष्यामि हताशयः । विना चन्द्रं समुद्रस्य, दशा जायेत कीनी ॥ १०२ ॥ न शक्रोमि परं वत्स!, वचस्ते
१ न विरुद्धमाचरिष्यति ।