________________
।तत् पञ्चरात्रमत्रैत्र, देवावस्थीयतामिति ॥ २८ ॥ मूहुर्विज्ञापितो भीम-सेनेन वसुधाधिपः । सर्वेषामपि लोकाना-मप्रयाण
समादिशत् ।। २९ ।। ( युग्मम् ) अपाथेयो जनस्तत्र, तपनातपविक्लवः । वाहूपधानः सर्वोऽपि, सुष्वाप प्रतिपादपम् ॥३०॥ तादृशे वनवासेऽपि, तेषामात्मानुगामिनाम् | वृत्तिचिन्ता दुनोति स्म, धर्मनन्दनमानसम् ।। ३१ ॥ ज्ञात्वा वाडग्मनो राज्ञः, पार्थः सस्मार सत्वरम् ॥ विद्यां मनोहराहार-समाहरणकोविदाम् ।। ३२ ।। ततस्तयोपनीतायां, रसवत्यां पृथान्नया । तं जनं | भोजयामास, प्रमोदा पसारममा ।। ३३ ।। विनवाभिनयल्थूलां, उपसौख्यातिमायिनाम् । सुखेन धर्मसूनुस्तं, गमयामास वासरम् ॥ ३४ ॥
अपरेधुर्महाबाहुः, पित्रादेशात् स्वदेशतः । पाञ्चालदुहितुबन्धु-धृष्टद्युम्नः समाययौ ।। ३५ ।। प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच कथं दीन-मित्थं धत्से मुखं स्वस: ! ॥३६॥ हस्तिनापुरचारिभ्य-श्वारेभ्यश्छमना कृतम् । श्रुत्वा प्रबासमेवं व-स्तातेन प्रहितोऽस्म्यहम् ॥ ३७॥ इदानीमपि सोदय :, निजशौर्येण विष्टपम् । अदुर्योधनमादयां, मन्यते तु पतिर्न ते ॥ ३८॥ ततः सत्यजडो याव-दने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति, तावदेहि गृहं पितुः ॥ ३९ ॥ इत्युक्ता प्रत्यभाषिष्ट, पाञ्चालनृपतेः सुता । दुर्योधनवधे विनो, राजैव भीम-पार्थयोः ॥ ४०॥ पाण्डवानां पदैयानि, पावनानि वनान्यपि । मयं तान्येव रोचन्ते, कृतं पित्गृहेण मे ॥ ४१॥ केवलं सरलान् चालान् , | भागिनेयाग्निजानमून् । पञ्चाप्यादाय पाशालान् , ब्रज त्वं विजयी भव ॥ ४२ ॥ एवमुक्तस्तया स्नेहा-धर्मसूनोरनुनया ।
घृष्टगुम्नः पतद्वाप्प-स्तान् गृहीत्वा गृहं ययौ ॥४३॥