________________
2.40
अथ सप्तमः सर्गः। अथ धर्मसुतः सत्य-निर्वाहस्पृहयालुना | मनसा वनवासाय, प्रतस्थे हस्तिनापुरात्॥१॥ भीमादयः सह व्रज्याअतसंनयुद्धयः । स्वस्वनखादिसामग्री समग्राश्चेलुरग्रतः ॥२॥ पाण्डुश्च धृतराष्ट्रश्च, भीष्मश्च स्नेहमोहिताः। निर्यद्वाप्पजलोत्पीडाः, पाण्डवाननु वव्रजुः ॥ ३ ॥ सत्यवत्यादयः सर्वाः, शोकार्ता ज्येष्ठमातरः । दासीहस्तकृतालम्बा, बभूवुः पाण्डवानुगाः॥४॥ मद्रं तवास्तु क्रीडाद्रे, क्रीडावापि ! नमोऽस्तु ते । क्रीडावन ! तब क्षेमः, पुनर्वः संगमः कुतः। ॥५॥ हो ! चाहनहो ! हंस:, हैले । हरिणि हे शुक! । कुशलं वोऽस्वसौ दैवा-याति वः परिचारिका ॥ ६ ॥ इत्यापृच्छय पतद्वाप्पा, केलिपात्राणि सर्वतः । बद्धा परिकरं कृष्णा, कुन्तीपृष्ठस्थिताऽचलत् ॥७॥(त्रिमिविशेषकम् ) लोकोऽपि पुरवास्तव्यो, गुणगृह्यतया परम् । विहाय गृहसर्वस्वं, धर्मनन्वनमन्वगात् ॥ ८॥ सर्वैः साकं सशोकैस्तैः, पार्वणेन्दुसमाननः । धर्मात्मजः पुराभिर्य-मृतों धर्म इवाबभौ ॥ १॥ विसंकटेऽपि संघ-संकटे पथि गच्छताम् । परस्परस्य लोकानां, मिचः पप्रथिरे कथाः ॥ १०॥
निजं नलेन साम्राज्यं, पुरा चूते पणीकृतम् । हा! हा! युधिष्ठिरेणापि, तदिदानीमनुष्ठितम् ॥ ११॥ विग्धिग्दुर्योधनं येन, महात्मा धर्मनन्दनः । कृत्वा घृतमयं छब, त्याजितो राज्यसंपदम् ॥ १२ ॥ दुर्योधनस्य न स्थास्नु, राज्यमा
१ज्या -प्रयाण सैव व्रतम् । 'हला' प्रतित्रयः ।