________________
श्रीपाण्डव- परित्रम् ।। सर्गः६॥ ॥११९॥
यते । अनेकप्रेयसीय तु, बन्धक्येव न संशयः ।। ९८४ ॥ तदेकवसनत्वं वा, वस्त्रराहित्यमप्यथ । पर्षदानयनं वापि, नैत- द्रौपद्यावीस्याः खल्वसांप्रतम् ।। ९८५ ॥ इति कोंक्तिमाकर्ण्य, क्रोधाध्माताशया अपि । बर्योधनगिया मध्या-स्तूष्णीमेवालेलम्बिरे IN] वरा॥९८६ ।। गान्धारेयोऽभ्यघान् क्रोध-फुरदोष्टपुटोऽनुजम् । जितेंवेयं मया सभ्यै-जल्पद्भिनिवेदिता ॥ ९८७ ।। तत्क र्षणम् ॥ सतीमानिनीमेना-मुन्मोच्यातनाम्बरम् । परिधाप्य जरद्दण्डी-खण्डं दासीयु निर्दिश ।। ९८८ ।। इति दुःशासनो दुष्ट-ज्ये. टुवान्धवशासनात् । नितम्बादम्बरं पाण्डु-स्नुषायाः स्त्रैरमाकृषत् ॥ ९८९ ॥ मा मेति दीनजल्पाक्याः, प्रक्षिपन्त्या मुखेडकुलीः । रुन्धत्यास्तत्करौ काम, पश्यन्त्याः पर्षदाननम् ॥ ९९० ॥ दुष्टात्मनांशुके कृष्टे, तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन, ताहगंवान्यदंशुकम् ॥ ९९१ ।। (युग्मम् ) मनुष्यपांसनः क्षिप्र-माधकर्ष तदप्यसौ । भूयोऽप्याविरभूत्तार-क्तस्याः श्रोणितटेऽम्बरम् ॥ ९९२ ।। हत्थमाकर्पतस्तस्य, बभूव वसनोत्करः । क्लान्तश्चायमपीयाय, दृष्टः स्मेराननर्जनैः ॥ ९९३ ॥
अथ क्रोधोदयात्ताम्र-चक्षुरूंईजकुन्तलः । रोमाञ्चकवची स्वेद-मेदुराङ्गः सवेपथुः ।। ९९४ ।। पाणिना पाणिमुत्पिपन् , सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः, प्रत्यज्ञासीढकोदरः॥ ९९५ ॥ युग्मम् ।। येनानीता सभां कृष्णा, बलादालम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः, श्रोणेराकृटमम्बरम् ॥ ९९६ ॥ बाहुदण्डं न चेत्तस्य, मूलादुन्मूलयाम्यहम् । कवोप्णैचाभिषिञ्चामि, न वक्षःशोणितैः क्षितिम् ।। ९९७ ॥ येन च सरकल्लोल-कैलिभिर्लोलितात्मना । द्रौपद्या दर्शितः स्वैर-मुरुदेशो रिसुना ।। ९९८ ॥ तस्योरं गदया तूर्ण, चूर्णीमावं नये न चेन् । तन्त्र मे पाण्डुना जन्म, न च क्षत्रव्रतं कचित् ।। १ 'बावलम्बिरे' प्रतिद्वयः । २ 'रुद्धर्षिकुन्तलः' इत्येकप्रतिपाठः साधुः ।
॥१९॥