________________
230
९७०|| उल्लसदैन्यमालिन्यां, सा मपीकूचिंकामिव । तत्र व्यापारयामास, मुखेषु प्रेयसां दृशम् ॥९७१।। तामालोक्य तथाभूतां, प्रपाकलुषिताऽऽनयाः । प्रेथामासुः सुताः पाण्डो-विविक्षव इव क्षितिम् ॥९७२॥ गृहेऽप्येतदरक्षन्तः, किं द्रष्टव्याऽऽनना वयम् । इतीव पिदधुर्वक्वं, हिया भीष्मादयोऽशकैः ॥९७३॥ दृशो द्रपदनन्दिन्यां, नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः, कामपल्लविता इव ॥९७४|| कृशोदर ! चिरादासी-दनुरागो मम त्वपि । हन्तायमन्तरायोऽभूत् , पाण्डवैः पाणिपीडनम् ॥९७५।। इदानीमप्युपागत्य, झटिस्येवास्यतामितः। इत्यूरुं दर्शयामास, याज्ञसेन्याः सुयोधनः ॥ ९७६ ॥ (युग्मम् )
अथावोचत पाञ्चाली, कोपकम्तराधरा । कुरुराजान्वयोदन्व-त्कालकूट ! कुलाशने ॥९७७॥ भस्मसात् किं न जातोऽसि, चिन्तयाऽप्यनया मयि । कोटरान्तर्गतोऽप्यग्नि-दहत्येव महीरुहम् ।। ९७८ ॥ (युग्मम् ) यदि गोत्रगरीयांसः, केपि म्युमहिमोन्नताः । वल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥ ९७९ ॥ मर्षयेयुस्तदेतस्थ, किमेतदनुजस्य च । जीवितव्यकथाकन्या-मित्थमन्यायवर्तिनोः ॥९८० ।। (युग्मम् ) किं चान्तास्वान्तमालोच्य, कथयन्तु सभासदः । दारितस्वात्मना मा, भवेयं यदि हारिता ।। ९८१ ॥
अथाम्यवत्त राधेयः, सभ्यान् किमियमङ्गना । विजिते राज्यसर्वस्वे, न तदन्तर्गता जिता: ।। ९८२ ।। अथैकवाससोमुष्या, मध्येसंसन्मतं न वः । बलादानयनं कापि, नेयमप्यव्यवस्थितिः॥९८३ ॥ एक एव पतिलोंके, योषितामुपगी
१ प्रदेष्टुमिच्छवः, प्रतित्रये - विवक्षवः' इति पाठो दृश्यते, स न सम्यक् । २ कुले-वंशे अशनि:-वनसमानः, तत्संबुद्धौ। ३ 'क्वापि' प्रत्यन्तरपाठः ।