________________
युधिष्ठिरेष
बीपान्हवपरित्रम् ॥ सर्गः६॥ ॥१९८॥
हारितम्॥
235 मामिनि ! ॥९५५॥ पाशालदुहिताऽवोच-मन्वद्यास्मि रजखला । एकांशुका च तत्संसद्युपागच्छाम्यहं कथम् । ॥९५६||
पम् ॥५६॥ किं च किंचन पृच्छामि, किंस्विदात्मनि हारिने । अहारिते वा तेनास्मि, हारिता जगतीभुजा ॥९५७ ॥ हारिताऽपि न तेनास्मि, हास्तिा हारिताऽऽत्मना । स्वकायेऽप्यस्वतन्त्रस्य, का नाम प्रभविष्णुता ॥९५८। प्रातरुमण्डमार्तण्ड-रोचिराचान्तदीधितिः। जानीहि रजनीनाथो, रजन्या अप्यनीश्वरः ॥९५९
तारिश करती नस एलूरे दुर्योधनानुजः । धिवाचालाऽसि पाश्चालि!, पुरो भवसि किं न हि ॥९६०॥ धर्मस्थैर्ये | त्वमेवासि, सांप्रतं किमधीतिनी? । जाने तमपि जानासि, बृहस्पतिमकोविदम् ॥ ९६१ ॥ इत्युदीर्य स कस्तूरी-भराकरितकान्तिषु । चकर्ष विहिवामर्षः, केशेषु द्रपदात्मजाम् ॥९६२।। आः! पाय ! कुरुभूपाल-गोत्र किपाकपादप । किं मामेवं. विधामेव, नेतासि गुरुसंनिधौ ॥९६३|| नीरङ्गीस्थगितं यस्याः, कोऽपि नापश्यदाननम् । हा ! सर्वेऽनावृताङ्गी तां, द्रक्ष्यन्ति | गुरवोऽध माम् ॥९६४॥ दुरात्मन् ! किं भवत्कर्म, कर्मसाक्ष्यपि नेक्षते ? । यन्न क्षणारिक्षणोति खां, परस्त्रीस्पर्शपांशुलम् ॥ ९६५ । क्रन्दन्तीति गलन्नेत्र-नीरनीरजितक्षितिः । तेनाकृष्टा जनैदृष्टा, सा मृगीव मृगारिणा ।।९६६।। शतशः शपमानानां, तदा दुःशासनं सताम् । नवसारस्वतोल्लास-लासिनी रसनाऽभवत् ।।९६७॥ नपासूनोरपि ज्ञान-धर्म-याय-शमादिषु । जनः | सावन एवाभूत् , क्लिश्यमानां विलोक्य ताम् ॥९६८। नेत्राश्रुसलिलैः कूलं-कषस्रोतस्विनीमयी । नूतना प्रावृडारमे, लोकैः शोकाकुलैस्तदा ।। ९६९ ॥ तामेकरसनामश्रु-विक्तवाक्षी त्रपानताम् । निनाय न्यायशून्याऽऽत्मा, हठाहुःशामनः सभाम् ।।
१ 'धर्मशास्त्रे' इति प्रतिद्वयः । २ कृतक्रोधः 1 ३ सूर्यः । ४ नीरजिता रजोविनाकुता।
॥११८॥